परिमलोपेता । २९ कितप्रायो नित्यमास्ते । तत्र लौकिकानां प्रमेयतयालोक्यमाने विश्वस्मिन् व्यवहर्तॄणां प्रमातॄणाम् "अत्यन्तस्वच्छता सा यत् स्वाकृत्यनवभासनम् इति श्रीतन्त्रालोकस्थित्या प्राकट्योद्रेककक्ष्यारूढतया वित्रष्टव्योऽप्यसौ मध्याह्नमातीण्डमण्डलन्यायेन तत्तद्रश्मिपरम्परास्फुरणप्राचुर्येण रश्मिमग्रह- णासामर्थ्यादप्राकट्यावस्थामवितिष्ठति । यथा त्रासादिराहित्यादत्यन्त- श्लाघ्यो माणिक्योपलखण्डः स्फुरदुरुमरीचि मञ्जरीपिञ्जरितपर्यन्त तथैव माणि- क्यमेतदुत्कृष्टमिति नांध्यवसितुं शक्यते, तद्वदात्मनोऽपि स्वशक्तिप्रसरति- रोहितत्वादेवास्फुटत्वशङ्का । एवमुभयस्वभावतायामेवास्य विश्वव्यवहारौ- चित्यम् । तदुक्तं मयैव संविदुलासे - “अर्चिः प्ररोहे महतः प्रमौतुर्नातिस्फुटत्वे च बहिः प्रथा मे । अपेक्षते प्रेक्षितुमात्मदर्श सूर्योदयं तद्व्यवधिं च लोकः ॥” इति । इयं च लौकिकानेव मातॄन् प्रत्युपपद्यते । यदुक्तं श्रीप्रत्यभिज्ञायां - “किं तु मोहवशादस्मिन् दृष्टेऽप्यनुपलक्षिते । शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदिश्यते || तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा । लोकस्यैष तथानवेक्षितगुणः स्वात्मापि सन्नीश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ॥” इति च । अलौकिकानन्तर्मुखान् प्रति तु - "न ध्यायतो न जपतः स्यादस्या विधिपूर्वकम् | एवमेव शिवाभासस्तं नुमो भक्तिशालिनम् ॥” इति श्रीमत्स्तोत्रावल्युक्तिरेव युक्तिपथमनुवर्तत इति ॥ ९ ॥ नन्वात्मनः स्फुटत्वमस्फुटत्वं चेत्यन्योन्यविरुद्धमेतद्धर्मद्वयं कथं नाम संगच्छत इत्याशङ्कय तस्य तादृशं किञ्चित् स्वातन्त्र्यमस्ति, यद् वि १. 'णां अ', २. 'हा', ३. 'मातृनास्ति स्फु', ४. 'पदइर्श्यते' क. पाठ:-
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/४७
दिखावट