पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी मर्श इत्याख्यायते यद्वत्तया चास्य परामर्शः पुरुषार्थतया सर्वथा साध्य इत्यु- पपादयति - उड्ढो जळइ पआसो कोआळोअस्य मंगळपईपो । विमरिससानुहाणिअहज्जंतमळाळितेळविच्छड्डो । ऊर्ध्वो ज्वलति प्रकाशो लोकालोकस्य मङ्गलदीपः । विमर्शदशामुखानीतदह्यमानमलालितैलविच्छर्दः ।। इति । योऽयं महं जानामि मम स्फुरतीत्याद्यशेषव्यवहारानुस्यूतः प्रकाश- रूपोऽर्थः, स खलु लोक्यमानस्य भावराशेरलोक्यमानस्य खपुष्पाद्यविशे षमभावजातस्यै च प्रदीपवत् प्रकाशकतयानुभूयते । तथा लोको मुख्यया वृत्त्या प्रकाशस्वभावत्वात् प्रमाता । अलोकश्च तदधीनप्रकाशत्वात् प्रमे- यम् । ग्राह्यग्राहकोभयकोट चुप श्लेषाल्लोकालोकः प्रमाणमिति प्रमात्रादित्रि- कपरमार्थस्य विश्वस्य प्रकाशको भवति । तादृक्प्रकाशाभावे विश्वरया- न्धतमसत्वापत्तिरिति प्रागप्यवोचाम । अत एव ह्यसौ मङ्गलतयोपन्यस्तः । इदमेव हि तदतिमहन्मङ्गलं, यत् स्तम्भकुम्भादीनामन्योन्यस्वभावाप- हारशङ्कां निस्स्वभावत्वसंभावनां च व्यपोह्य तेषां तथाभावेनावस्थाप- नम् । स च ऊर्ध्वः स्वयंप्रकाशतया प्रकाश्यवर्गोत्तीर्णो भवन् । ज्व लति सर्वसंप्रतिपत्त्य परिस्फुरति । तस्य च विमशीख्योऽतिशयः क- श्चित् स्वभावतया स्वीकर्तव्यः । अन्यथा दर्पणादिप्रकाशवदस्य जाड्य- कक्ष्यानुप्रवेशप्रसङ्गात् । यदुक्तं श्रीप्रत्यभिज्ञायां- "प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ।” -- इति । स च कार्यवर्गवैलक्षण्येन प्रकाशस्य कर्तृत्वॉख्यो धर्म इत्यनन्त- रमुपपादयिष्यते । अत्र खल्वतिविस्तीर्णे लोकयात्राविजृम्भिते । व्यवह्रियन्ते बहवो भावा भूभूधरादयः ॥ व्यवहारविधिस्तेषामसंकीर्णश्च लक्ष्यते । तत्र किं तन्निमित्तं स्यादित्यालोचयतां सताम् || १. 'ह', २. 'मिस्फु', ३. 'स्य प्र', ३. 'र्ध्व प्र' क. पाठ: स्फु', ५. 'ता' ग. पाठः. ४. 'त्या