व्यवहारकाण्डम् ५८४ ..(२) किं च । यस्तु दण्डयान्स्वधर्मचलनादिना दण्ड- योग्यान्सम्यक् शास्त्रदृष्टेन मार्गेण घिग्धनदण्डादिना दण्डयति, वध्यान्वधार्हान्घातयति तेन राज्ञा भूरिदक्षिणैः ऋतुमिरिष्टं भवति । बहुदक्षिणऋतुफलं प्राप्नोतीत्यर्थः । न च फलश्रवणाद्दण्डप्रणयनं काम्यमिति मन्तव्यम् । अकरणे प्रायश्चित्तस्मरणात् । यथाह वसिष्ठ: - 'दण्डो- त्सर्गे इत्यादि । xमिता. • इति संचिन्त्य नृपतिः ऋतुतुल्य फलं पृथक् । • व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् || (१) दण्ड्यादण्डयवध्यावध्यविवेकक्लृप्त्यर्थम् इति संचिन्त्येत्यादि । पृथकं विविक्तानित्यर्थः । यद्वा ऋतु- तुल्यफलं पृथगिति संबन्धः । एकैकदण्डने ऋतुफल- प्राप्तिरित्यर्थः । विश्व. १।३५६ (२) दुष्टे सम्यग्दण्ड : प्रयोक्तव्य इत्युक्तं, दुष्टपरि- ज्ञानं च व्यवहारदर्शनमन्तरेण न भवतीति तत्परि- ज्ञानाय व्यवहारदर्शन महरहः स्वयं कर्तव्यमित्याह - इति संचिन्त्येत्यादि । इत्येवमुक्तप्रकारेण ऋतुतुल्यं फलं दण्डयदण्डेन, स्वर्गादिनाशं चादण्डयदण्डेन सभ्य- ग्विचिन्त्य पृथक पृथग्वर्णादिक्रमेण सभ्यैर्वक्ष्यमाणलक्षणैः परिवृतः प्रतिदिनं व्यवहारान्वक्ष्यमाणमार्गेण दुष्टादुष्ट परिज्ञानाथ राजा स्वयं पश्येत् । मिता. +अप. (३) पृथक् कार्यान्तरासंकरेण । राशः सर्वो दण्ड्यः अपि भ्राता सुतोऽर्थ्यो वा श्वशुरो मातुलोऽपि वा । नादण्डषो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ ( १ ) यस्माच्च सम्यग् दण्डनात् स्वर्गादिप्राप्तिः । तस्मात् - अपीत्यादि । विश्व.१।३५४ X अप. मितावत् । + शेषं मितावत् । (१) यास्मृ. १ ३६०; विश्व ११३५६; मिता; व्यमा. २७८; अपं. ११३५८; स्मृच. २६; विर.६४९; ब्यचि. १ ; सवि. १६ लं (लान्) : ७२ (८) उत्त.; वीमि.; व्यप्र. १० उत्त.; व्यउ ६; सेतु. ३००; प्रका. ६; समु. ११. (२) यास्मृ. ११३५८; अभा. ३ र्थ्यो वा (वापि); विश्व. १९३५४; मिता. ; अप. १ | ३५६३ सबि.४७; वीमि.; प्र. २६; व्य. १३. (२) अध्याऽघई: आचार्यादिः । शेषः प्रसिद्धः । एते भ्रातृसुतादयोऽपि स्वधर्माच्चलिता दण्ड्याः किमुतान्ये । यतः स्वधर्माच्चलितः अदण्डयो नाम राज्ञः कोऽपि नास्ति । एतच्च मात्रापित्रादिव्यतिरेकेण । तथा च स्मृत्यन्तरम् – ‘अदण्ड्यौ मातापितरौ स्नातकपुरोहित- परिव्राजकवानप्रस्थाः श्रुतशीलशौचाचारवन्तस्ते हि धर्माधिकारिणः' इति । मिता. (३) यत्त स्मृत्यन्तरम् – 'अदण्डयौ' इत्यादि । तत्स्व- ल्पापराधविषयम् । न सर्वात्मना दण्डाभावाभिप्रायम् । अत एव दक्षः - 'पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति । श्वपदेनाङ्कयित्वा तं क्षिप्रं राजा विवासयेत् ॥ अप. उद्वृत्तसंघा दण्ड्या: 'कुलानि जाती: श्रेणीच गणान् जानपदानपि । स्वधर्माच्च लितान्राजा विनीय स्थापयेत्पथि । (१) कुलानि कुटुम्बानि । जातयो ब्राह्मणाद्या वर्णाः । श्रेणय: कारुकसमुदायः । गणा ब्राह्मणादिसमूहाः । जनपदो दुर्गाश्रयोऽत्र जनोऽभिप्रेतः । सोऽपि राज्ञा स्व- धर्माच्चलितो दण्ड्य इत्यभिप्रायः । सर्वश्चेतरजनो वा जनपदः । सर्वथा सर्वः स्वधर्माच्चलितो राज्ञा दण्ड्य इत्यभिप्रायः । विश्व. २।३४ (२) कुलानि ब्राह्मणादीनाम् । जातयो मूर्धावसिक्त- प्रभृतयः । श्रेणयस्ताम्बूलिकादीनाम् | गणा हेलाबुक्का- दीनाम् । जानपदाः कारुकादयः । एतान्स्वधर्माच्चलिता- न्प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि स्वधर्मे स्थापयेत् । दण्डं दुर्वृत्तेषु निपातयेदित्युक्तं स च दण्डो द्विविधः शारीरोऽर्थदण्डश्चेति । द्विविधोऽप्यपराधा- नुसारेणानेकधा भवति ।
- मिता.
(३) गणान् मठब्राह्मणादीन् । जनपदान् राष्ट्राणि । पूर्व पूर्वपदण्डो विहितोऽत्र तु बहूनामित्यपुन- रुक्तता । + अप.
- विर. मिताबत् + शेषं विश्ववत्
(१) यास्मृ. ११३६१; विश्व. २१३४ (कुलानि जातयः श्रेण्यो गणान् जानपदानपि ); मिता.; अप. ११३५९ जान (जन); स्मृच. २९ ( कुलानि व श्रेणिजानपदानपि); विर.६२३; पमा.४६ (कुलानि प्रकृतीश्चैव श्रेणिर्जानपदानपि); दवि.२६३ णाम् (नं); सवि. १७ नपि (नि च); वीमि. अपवत् । प्रका. १८ स्मृचवत्; समु.१३.