३६० व्यवहारकाण्डम् पितॄनामजातिद्रव्यप्रमाणर्णिमतसाक्षिलेखाद्यङ्गपरिपूर्ण- लिखितबलात् कश्चिदृणी धर्माधिकरणमानीतः । तेन चोत्तरकालेऽभिहितं - यथा सत्यमिदमस्ति । मया तत्पत्रं लिखितमासीत् । किंतु किल कार्यार्थं द्वितीय- दिने द्रव्यमभिग्रहीप्यामि । तावत्कार्य वोढनीयम् । मया द्रव्यं न गृहीतम् । पत्रं च प्रमादात्यावे स्थित्वा मया न पाटितम् । तावत्कतिपयदिवसागमेनैवास्य पित्रा उक्तोऽहं यथा त्वदीयमगृहीतार्थे पत्रं मया तस्मिन्नेव दिने अनादरेण बहिरेव मुक्तं किल निरर्थकत्वात् । त्वन्निरोधात् पाटयिष्यामि । तावत्तद्देयं नष्टं, येन अति प्रयत्नेनान्वेषयतापि मया तत्कचिन्न दृष्टम् । तन्मा कश्चिदैवयोगात्कालान्तरेऽपि तत्र यः चाकरीभवति । अतोऽहमेच प्रणष्टिविशुद्धिपत्रं प्रयच्छामि। एवमुक्त्वा तेनाऽस्य पित्रा तत्काल एवं मम प्रणष्टिविशुद्धिपत्रं दत्तम् । तच्च मयाऽतिप्रयत्नेन तत्कालेऽमुकायतने वसता तत्रैवामुकपा धवलगृहमञ्जूपायां स्थापितम् । इत्येवं प्रतिवादिनोत्तरे दत्ते तदानयनापेक्षया तहानार्थं तस्य सतस्तत्कालहरणं देयम् । असतस्तद्रष्टदर्शनं प्रमाण- मित्यादिकं प्रतिवांदिनोऽपि सोपयोगार्थमिति । अभा.६०६९ (२) सतो विद्यमानस्य पत्रस्य देशान्तरस्थस्थानय नाय कालकरणं कालावधितव्यः | असतः पुनरविद्य मानस्य पूर्व ये द्रटारः साक्षिण: तैर्दर्शनं व्यवहार परिसमापनं कार्यम् ।
- मिता. २।९१
(३) अयमर्थ:----सतो देशान्तरस्थस्याऽनयनाथं कालकरणमियता कालेन त्वया तदाहरणीय मिति काला- वधिकरणम् । असति तु पूर्वलिखिते लिखितान्तरं कृत्वा तस्य दर्शयितव्यं, येन तत्पूर्व लिखितं दृष्टम् । द्वितीय लेख्यस्यान्यथाभावनिराकरणाय | अप. २।९१ , (४) एतत्तदैव धनदानोग्रतऋणिक विषयम् । तत्र लेख्यान्तरकरणे प्रयोजनाभावात् । कालकरणमानयनाथ तस्य पत्रस्यानयनयोग्यकालकल्पनम् । द्रष्टृदर्शनं यत्र लभ्यपत्रार्थज्ञातृज्ञापनं धनप्रतिपादने कार्यमित्यर्थः ।
- स्मृसा., ग्यत, सवि., व्यउ, व्यम, विता, सेतु.
मितागतम् । एतच्च पत्रपाटनासंभवेऽपि साक्षिणां साक्षित्व निवृत्तये कार्यम् । प्रतिपादनप्रकाशनार्थं च प्रतिदत्तपत्रं ग्राह्यम् । कालान्तरे तु धने देये लेख्यान्तरं कार्यमेव ।
- स्मृच.६१
(५) देशान्तरन्यस्तेऽसंनिहिते | दग्धे गृहदाहादौ । दुर्लिखिते लेख्यधर्मापेतत्वेन । हृते चोरादिभिः । सत स्तत्कालकरणं सतो देशान्तरस्थस्य हृतस्य वा तस्य कालकरणमियता कालेनानेतव्यमिति । असतो दग्धस्य दुर्लिखितस्य वा । अदृष्टस्य दर्शनमदृष्टदर्शनं, अदृष्ट- स्थापूर्वस्य दर्शनं कारणम् । अथवा सतः सद्भुतस्य तत्कालकरणं यभयानुमतं अविवाद: स्यात् । पुनः पत्रं कर्तव्यम् । असतोऽदृष्टस्य दर्शनम् । दृश्यतेऽनेनेति दर्शनम् । दर्शनमुपलब्ध्युपायः । Xनाभा. २।११९ (६) असत इत्यनादरे षष्ठी तद्विनापीत्यर्थः । +व्यप्र. १४८ यंत्र स्यात्संशयो लेख्ये भूताऽभूतकृते कचित् । तत्स्वहस्तक्रियाचिह्नयुक्तिप्राप्तिभिरुद्धरेत् ॥ (१) यत्र लेख्ये भूताभृतकृतेऽर्थ विप्रत्ययो भ्रान्ति- र्भवेदिति तत्परीक्ष्यं स्वहस्तक्रियाचिह्नयुक्तिप्राप्तिभिरिति । स्वहस्तप्रति विश्वास केन । क्रियया तदारुढसाक्षिभिः । चिह्वेन लेखक लिपिचिह्ननिरूपणेन । युक्त्या चानया युज्यमानार्थता युक्तिरयुक्तिस्तद्विपर्यये । प्राप्तिर्द्विधा, एका कथमनेन पत्रमिदं प्राप्तम् । द्वितीया जल्पतः साक्षोभ्यमाक्षोभ्यं वा । कीदृशी अस्य प्राप्तिरित्यादि भताभृतलेख्यसंशयमुद्धरेदिति । अभा.६१ (२) चिन्हमसाधारणम् | युक्तिप्राप्तिः अस्मिन्देशे अस्मिन्काले युज्यते तस्य पुरुषस्येदं दृष्टमित्यादिरूपा । व्यक.६७ (३) तदमाक्षिक स्वहस्तकृतलेख्य विषयम् । तत्र
- पमा. स्मृचवत् ।
x अपरार्कानुसारीदं व्याख्यानम् । + शेषं मितागतम् । (१) नासं. २ | १२० यत्र (यस्मिन्) युक्तिप्राप्ति (प्राप्तियुक्ति); नास्मृ. ४|१४३; अभा. ६१; व्यक. ६७ यत्र ( यस्मिन्); स्मृच.६३ यत्र स्यात् (यस्मिंस्तु) कृते (कृत :); पमा. १३३ नासंबत् ; नृप्र. १२ नासंवत् ; व्यसौ. ६२-६३ व्यकवत्, बृहस्पतिः; बाल २।९२ व्यकवत् ; प्रका. ४१ स्मृचवत्; समु. ४४ स्मृचवत्.