लेख्यम् घंटे वा ताम्रपट्टे वा लिखितं स्वमुद्राङ्कं चागामिनृपतिपरिज्ञानार्थ दद्यात् । यंत्र वचन येन केनचिल्लिखितं साक्षिभिः स्वहस्तचिन्हितं ससाक्षिकम् । स्वहस्तलिखितमसाक्षिकम् । प्रमाणमप्रमाणं च लेख्यम् तेंदूलात् कारितमप्रमाणम् । उपधिकृताश्च सर्व एव । दूषितकर्मदुष्टसाक्ष्यङ्कितं तत्ससाक्षिकमपि । ताहग्विधेन लिखितं च । स्त्रीबालाऽस्वतन्त्रमत्तोन्मत्तभीतताडितकृतं च । देशाचाराऽविरुद्धं व्यक्ताधिकृतलक्षणमलुप्त- क्रमाक्षरं प्रमाणम् । लेख्यपरीक्षा वर्णैश्च तत्कृतैश्चिङ्गैः पत्रैरेव च युक्तिभिः । संदिग्धं साधयेल्लेख्यं तयुक्तिप्रतिरूपितैः ।। यंत्रर्णी धनिको वाऽपि साक्षी वा लेखकोऽपि वा । म्रियते तत्र तल्लेख्यं तत्स्वहस्तैः प्रसाधयेत् || 'धनिको वाऽपि' इति शुद्धपत्रिकाविषयम् । व्यमा. ३३९ याज्ञवल्क्यः राजकृतदान लेख्यविधिः ऋ॒त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् । आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः || (१) भूमिनिबन्धदानयोस्त्वयं विशेषः – दत्वा भूमि - (१) स्मृच. ५६; व्यप्र. १४५ टे वा (टे च) चा (आ) र्थ (थे); प्रका. ३६; समु. ४०. (२) विस्मृ. ७१४-५; व्यक. ६१. (३) विस्मृ. ७७६-११. (४) विस्मृ. ७/१२. (५) विस्मृ. ७११३; व्यमा ३३९; स्मृच.६४ साध (धाव); पमा १३४; प्रका. ४२; समु. ४४. ३४९ मिति । निबन्धोऽक्षयनिधिः | स्पटमन्यत् । विश्व . १ ३१४ (२) यथोक्तविधिना भूमिं दत्वा स्वत्वनिवृत्तिं कृत्वा निबन्धं वा 'एकस्य भाण्डभरकस्येयन्तो रूपकाः' 'एकस्य पर्णभरस्येयन्ति पर्णांनी ति वा निबन्धं कृत्वा लेख्य कारयेत् । किमर्थम् ? आगामिनः एण्यन्तो ये भद्राः साधवो नृपतयो भूपाम्तेपामनेन दत्तमनेन प्रतिगृहीत मिति परिज्ञानाय । पार्थिवो भूपतिः । अनेन भूपतेरेव भूमिठाने निबन्धदाने वा अधिकारी न भोगपते रिति दर्शितम् । मिता. (६) यास्मृ. १ | ३१८ ; विश्व . १ ३ १४ भद्र (क्षुद्र); मिता.; अप. १।३१६- ३१७ तु ( च ) ; व्यक. ६३; स्मृच. ५५; पमा. १२२; सुबो. २१ २२ पृ.; व्यचि. ६२ आगामिभद्र ( तत्र चागामि); सवि. २६; व्यसौ. ६०; वीमि.; व्यप्र. १४४ दत्वा भूमिं (भूमिं दत्वा ); व्यम. १३; बिता. ११९; बाल. २।२२ पृ. प्रका. ३५; समु. ३९. (३) भूमिं क्षेत्रारामग्रामादिकां विप्राय दत्वा निबन्धनं वा कृत्वा भद्राणां शास्त्रार्थकारिणामागामिनां नृपतीनां परिज्ञानाय परिनिश्चयाय पार्थिवः पृथिवीपति- लिखितं लेख्यं वक्ष्यमाणप्रकारं कारयेत् । अस्मिन् ग्रामे प्रतिक्षेत्रं क्षेत्रस्वामिनैतद्धनमस्मै प्रत्यब्दं प्रतिमासं वा देयमित्येवमादिनियमो निबन्ध: । अप. ११३१६-३१७ (४) निबन्धो वाणिज्यादिकारिभिः प्रतिवर्ष प्रति- मासं वा किञ्चिद्धनमस्मै ब्राह्मणायास्यै देवतायै वा देय- मित्यादिप्रभुसमयलभ्योऽर्थः । अत्र यद्यपि धनदातृत्वं वाणिज्यादिकर्तुः तथापि निबन्धकर्तुरेव पुण्यं तदुद्देशे नैवेतरस्य प्रवृत्तेः । भूमिमिति ग्रामारामादीनामुपलक्षणा- र्थम् ।
- स्मृ.च.५५
(५) भूमिं ब्राह्मणादिभ्यो दत्वा निवन्धं 'अस्यां भुमावियान् करो ग्राह्य इत्यादि व्यवस्थां च कृत्वा । +वीमि. (६) इयति पर्णक्रमुकभारादावियन्ति पर्णक्रमुकादी- न्यस्मै देयानीति राशो नियतदानाशा निबन्धः । कारयेत् संधिविग्रहाद्यधिकारिद्वारेत्यर्थात् । व्यप्र. १४४-१४५ (७) निबन्ध: आकरादौ राजादिदत्तं नियतलभ्यम् । व्यम. १३ तल्लेख्य स्वरूपम् पेढे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥
- पमा, सवि. स्मृचगतम् + शेषं मितागतम् ।
(१/ ● यास्मृ. १३१९; विश्व. ११३१५ द्रोप (द्राप); मिता. ; अप. १।३१७-३१८; व्यक.६३; स्मृच. ५५ उत्त.; पमा. १२२ उत्त.; व्यचि.६२ पू.;