सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी प्रतिशां स जयी भवेत्' इति स्मृतेर्न्यायमूलकतया साक्षि पदस्य उपलक्षणत्वे केनापि प्रमाणेन यत्प्रतिज्ञातोऽर्थः प्रमितः स जयीत्येवंपरत्वात् । 'साध्यार्थाशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसङ्गे साहसे चौर्य यत्साध्यं परिकीर्तितम्' || इति कात्यायनवचनादेक देशप्रमाणे सर्वदेयता चौर्यादाविति मिताक्षरा । श्रुतसाक्षी तु पृष्ठो यत्राहमिममर्थमश्रौषमित्याह, तत्र नार्थसिद्धिः शब्दार्थ योर्व्याप्त्यभावात किन्तु प्रत्यक्षादिव शब्दादप्यर्थं यत्रा- वधारयति, तत्र प्रामाण्यशङ्काकलङ्कानालिङ्गितशब्देन प्रमितार्थोऽर्थमेव यत्र निगदति तत्रैवार्थसिद्धिः । तत्र कलङ्के तु न साक्षी न वा तन्निगद आदेय इति । Xव्यचि. ६० (४) लिखितादूनमधिकं वार्थ पृष्टाः साक्षिणो ब्रूयुः ‘दशे`ति लेखिते ‘सते`ति ‘'द्वादशेति वा पृष्टाः साक्षिणो ब्रूयुस्तदप्यनुक्तं साध्यम् । एप साक्षिधर्मः । तत्राति रिक्तवचने साक्षिणो मृपावादिनः । न स्वार्थं कश्चिदूनं प्रतिज्ञानीते । सर्वथा हीनः स भवति । तदूनवचने विभापितैक देशत्वात् दाप्यः सर्वं स्यात् । न । विषयभेदात् । अपह्नुते लोप्त्रादिनैकदेशे विभाषिते सर्व दाप्य इति तदुक्तम् । इह तु प्रतिज्ञासाक्षिवचनयोर्विप्रतिपत्तिरिति वैषम्यं तेन । नाभा. २।२१० (५) न चाधिकाभिधानमसंभवि वादितः प्रतिवादितो वाऽश्रुतेऽद्दष्टे वाऽनुभवमूलक संस्काराभावेनास्मृत तत्प्रतिपादनासंभवादिति वाच्यम् । करणापाटवादिना श्रुतिदृष्टयोरुभयोरपि संभवात् । अत एव भ्रान्तिमूलत्वे- नाप्रामाण्यात् तद् उक्तमपि अनुक्तमित्युक्तम् । न च तथाप्यूनाभिधाने कुत अनुक्ति: ? साक्षिवचनात्तावतः सिद्धावेकदेशत्रिभावितन्यायेनाऽन्यांशस्यापि सिद्धेर्जय फलकतया न्यूनतोक्तेरदुत्वादिति वाच्यम् । प्रतिज्ञात- सकलसाध्यसाधकतयोद्दिष्टेषु न्यूनमभिहितवत्सु न तन्न्या- यावसर इति प्रागावेदितत्वात् । व्यप्र. १२९ य॑स्य दृश्येत सप्ताहादुक्तसाक्ष्यस्य साक्षिणः । रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः ॥ x शेषं स्मृसागतम् । (१) अप. २१८१ साक्ष्य (वाक्य) गो (गा); व्यक.५८ मनु- नारदौ; स्मृला. १०३ मनुनारदी; व्यचि. ५५; दवि. ३४७ मनुनारदौ; स्मृचि. ४८ मनुनारदौ; व्यसौ. ५५; वीमि. २।७९. ३२३ बृहस्पतिः द्वादशविधा: साक्षिण: ' लिखितो लेखितो गूढः स्मारितः कुल्यदूत कौ । यादृच्छिकश्चोत्तरश्च कार्यमध्यगतोऽपरः || नृपोऽध्यक्षस्तथा ग्रामः साक्षी द्वादशधा स्मृतः । प्रभेदमेषां वक्ष्यामि यथावदनुपूर्वशः ॥ (१) लिखितस्यैव स्वयं परेण वा लिखनभेदात् द्विविधत्वम् । व्यमा. ३२१ (२) अत्र साक्षी द्विविध: द्रष्टा श्रोता च । तत्र द्वावपि पड्विधौ, तत्राद्यो लिग्वित लेग्वित स्मारितकुल्ययादृच्छिक- कार्यमध्यगतभेदात् पोढा । अन्यो गूढदूतकोत्तरसाक्षि ग्रामाध्यक्षराजभेदात् षोढैव । व्यचि.३६ (३) अर्थिना पत्रे विनिवेशितो लिग्विनः । कुड्यादि- व्यवधानेन श्रावितो गूढः । पुनःपुनः कार्य स्मार्य माण: स्मारित: । यदृच्छयैवागतः साक्षी क्रियमाणो यादृच्छिकः | श्रवणाच्छादा साक्षिणामध्युपपरि भापमाण उत्तरः । अध्यक्ष प्राइविवाकः । इदं च सभ्यादीनामुपलक्षणम् । व्यम. १५ (४) प्रत्यर्थना अर्थिपरेण यो निवेशितो लेखितः ।

  • बाल. २१६८

जातिनामादि लिखितं येन स्वं पित्र्यमेव च । निवासश्च स विज्ञेयः साक्षी लिखितसंज्ञकः ॥

  • शेषं व्यमगतम् ।

च्छिकश्चोत्तरश्च (च्छाश्चोत्तराश्चैव); अप.२।६९ यादृच्छिकश्चो- (१) व्यमा. ३२१ तो लेखि (नोडलिखि) रित: (रिती) त्तरश्च (यदृच्छश्चोत्तरश्चैव); व्यक. ४१ अपवत्; स्मृच. ८१ च्छिक (च्छक); पमा.१०२ तो ल (ते ले) या ...श्च (यदृच्छो तरमाक्षी च); व्यचि. ३५ तोर (तः प); नृप्र.९; ब्यसां. ३९; वीमि. २७२ व्यचित्; व्यप्र. १०७; व्यम. १५; विता. १५८; बाल. २०६८ दूत (दत्त); प्रका. ५२; समु. ३१ कुल्य (कुल); विव्य. ११.१२. (२) व्यमा. ३२१ स्मृ (म); अर. २१३९; व्यक. ४१; स्मृच.८१ पू.; पमा. १०२; व्यावे. ३५; नृप्र.९; यसो. ३९; वीमि. २७२; व्यप्र. १०७-१०८; व्यम. १५पू. ; विता. १५८पू.; प्रका. ५१ उत्त, ५२ पू. ; समु. ३१; विष्य. १२पू. (३) व्यमा. ३२१ मादि माभि) निवा (निरा) संघ (सङ्ग); अप. २१६९; व्यक. ४१ दि (मि); स्मृच.८०; पमा,