सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी (१) मृते धनिनि यदि कश्चिद्वदति-- मम धनिना अमुकामुकगौर्महिषी बलीवर्दो वा अमुक केदारो वा अमुकप्रयोजने पर्वणि वा प्रतिपादितः । तथा चाऽमुकाः साधवः साक्षिणो नाम विद्यन्ते । अन्योऽपि यदि कश्चिद्वदति 'तव पित्रा मम द्रम्मशतं दातव्यं, अमुकामुकसाक्षिण' इति । ततो मृते धनिनि मृतान्तरे सन्तोऽपि साधवः साक्षिणो न प्रमाणं स्युः । अन्यत्र स्वयं श्रावितादिति- यदा पुनः तेनैव धनिना समासन्नमृत्युना कथञ्चित्साक्षिणामत्रैव स्वमुखेनैव कोऽप्यर्थः श्रावितः स्यात् । अथवा असौ मुमूर्षुः केनापि धनिना जल्पयित:, तेनापि समासन्नमृत्युना सोऽर्थः स्वमुखेन प्रतिपन्नः । ततस्तस्मिन्मृतेऽपि साक्षिणः प्रमा- णमिति । अभा.५० (२) यदि तु पुत्रादिषु पित्रादिना ज्ञापितं सकल- मन्यत एव श्रुतं तदा तत्रासौ भवत्येव साक्षी । मुमूर्षु- श्रावितत्वमुपलक्षणम् । अन्यथा अदृष्टार्थतापत्तेः । व्यमा. ३२७ (३) 'जीवन्तस्त्वेव साक्षिण' इत्युक्तम् । जीवन्तोऽपि न प्रमाणं स्युः । वेदाः प्रमाणं स्मृतयः प्रमाणमिति यथा । पुत्रेण विना त्वं साक्षीत्येवमाह यः, मृते तस्मिन् कः साक्षीकृतः केन चेत्यविज्ञानात् तेषां साक्षित्वे पुनः प्रमाणेन प्रयोजनमित्यनवस्था स्यात् । किमेष एवो- त्सर्गः? न, मुमूर्षुणा यच्छ्रावितं स्यात् - एते साक्षिणो ऽस्मिन्नर्थ इति अन्येभ्यः । तत्र मृतेऽपि साक्षिणः प्रमाणं तेषां साक्षित्वे इतरे प्रमाणमिति । अतोऽन्यत्रा- प्रमाणम्, एते तत्र साक्षिण इति पत्राभावात् । इतरत्र साक्षित्वे तन्मुखादेव श्रोतणां विद्यमानत्वात् प्रमाणम् । नाभा. २८२ नं हि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिणां वचः । साक्षिमत्कारणं तत्र प्रमाणं तस्य जीवतः || (१) अत्राऽर्थी धनी उच्यते । प्रत्यर्थी ऋणी । तस्मिन्प्रत्यर्थिनि ऋणिके प्रेतीभूते साक्षिणां वचः वचनं न हि प्रमाणं, यतः साक्षिमत्कारणं तस्य जीवत एव च, (१) नासं. २१८ ३ कार (कर) तस्य जीवतः (स्याद् विनि- श्वये); नास्मृ.४!९५; अभा. ५०३ व्यसौ. ४६ प्रेते (मृते) शेषं नासंवत्. म. का. ३९ ३०५ न मृतस्येति । अभा.५० (२) तथाभूत एव विषये प्रत्यार्थनि प्रेते न प्रमाणं साक्षिणां वचः । विद्यमानसाक्षिकं करणं पत्रं प्रमाणम् । तत्र साक्षिव्यतिरिक्तस्य पत्रस्य तेषां साक्षित्वे विद्यमान- त्वात् । नाभा. २९८३ मुमूर्षुश्रावितस्य साक्षित्वम् श्रीवितश्चातुरेणाऽपि यस्त्वर्थो धर्मसंहितः । मृतेऽपि तत्र साक्ष्यं स्यात् षट्सु चान्वाहितादिषु ॥ (१) अत्र आतुरेण पित्रा पुत्रपरोक्षेऽपि योऽर्थो धर्म- दत्तादिसाक्षिणां पुरतः श्रावितः स प्रमाणम् । तथा षट्सु चान्वाहितादिषु । तस्मिन्नातुरत्वे समुपस्थिते संजातपश्चात्तापो यद्वदति साक्षिपुरतः - यथा मया अमुक- पार्श्वात्सारममुकं वसु असारप्रतिवस्तुना अन्वाहितं तदर्प- णीयम् । तथाऽमुकसक्तकं वसु मया हृतं तन्मोक्तव्यम्, तथाऽमुकेनाऽमुकं वसु मम निक्षिप्तं तदर्पणीयम् । तथा- ऽमुकं मया बलादवष्टब्धं तन्मोक्तव्यम् । तथाऽमुकं याचितं तदर्पणीयम्, अमुकं परोक्षं भुक्तं तन्मोक्तव्यमिति । एतेषु षट्सु अन्वाहितादिषु मृतेऽपि तस्मिन्साक्षिणः प्रमाणानीति । अभा.५० (२) एवं च यदुक्तं स्मृत्यन्तरे – 'न्यासान्वाहित विक्रीते हृते दत्तेऽथ याचिते । मुमूर्षुश्रावितर्णे च पृच्छे- त्साक्ष्यं मृतान्तरम्' ॥ इति तच्छ्रावितस्य साक्षित्वं मृतेऽपिं श्रावकेऽर्थेिनि नापैतीति ज्ञापनार्थम् । न पुनर्मृतान्तर- स्यापि कचित्साक्षित्व विधानार्थमित्यवगन्तव्यम् । मृतान्त- रस्य साक्षित्वासंभवात् । स्मृच.८२ (३) मिता. टीका- अपिर्मुमूर्षुसमुच्चायकः । धर्मसंज्ञितो धर्माख्य इत्यर्थः । तत्स्वरूप इति यावत् । धर्मज्ञान- विषयो वा । ‘धर्मसंहित' इति पाठान्तरम् । धर्मयुक्त (१) नासं. २९८४ चा (स्त्वा) क्ष्यं (क्षी); नास्मृ. ४।९६; अभा. ५०, ६२,६६; मिता. २१७० तश्या (ताडना) क्ष्यं (क्षात्); व्यक. ४८ तश्चानु ( तैनान्त); स्मृच.८१ तश्चा (तेना) क्षयं (क्षी) चान्वा ( त्वन्वा ) स्मृत्यन्तरम्; ब्यसाँ. ४६ (=) तश्चा (तोऽना); व्यप्र. ११५ क्ष्यं स्यात् (क्षीस ) 3 व्यउ. ४८ तश्चा ( तोडना ) क्ष्यं (क्षी) दिपु (निपु); विता. १६१ तश्चा (तोऽना) क्ष्यं (क्षी); प्रका. ५३ वितावत्, स्मृत्य- न्तरम् ; समु. ३२ चान्वा (त्वन्वा) शेषं प्रकावत्, स्मृत्यम्तरम्