साक्षी प्रवासयेत् मारयेत् । अर्थशास्त्रे प्रवासशब्दस्य मारणे ! प्रयोगात् । अस्य चार्थशास्त्ररूपत्वात् । तत्रापि प्रवासनमोष्ठच्छेदनं जिह्वाच्छेदनं प्राणवियोजनं च कौटसाक्ष्य विषयतानुसारेण द्रष्टव्यम् । ब्राह्मणं तु दण्डयित्वा विवासयेत् स्वराष्ट्रान्निष्कासयेत् । वाससो विगतो विवासाः । विवाससं करोतीति णिचि कृते णाविष्ठवत्प्रातिपदिकस्येति टिलोपे रूपम् । नग्नीकुर्यात् इत्यर्थः । अथवा वसत्यस्मिन् इति वासो गृहम् । विवा सयेत् भग्नगृहं कुर्यादित्यर्थः । ब्राह्मणस्यापि लोभादिकारण विशेषाऽपरिज्ञाने अनभ्यासे च तत्र तत्रोक्तो दण्ड एव । अभ्यासे त्वर्थदण्डो विवासनं च । तत्रापि जातिद्रव्यानुच- न्धाद्यपेक्षया विवासनं नमीकरणं गृहभङ्गो देशान्निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणविशेषाऽपरिज्ञाने अनभ्यासे चाल्पविषये कौटसाक्ष्ये ब्राह्मणस्यापि क्षत्रि- यादिवदर्थदण्ड एव । महाविषये तु देशान्निर्वासनमेव । अत्राप्यभ्यासे सर्वेषामेव मनूक्तं द्रष्टव्यम् । न च ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थ- दण्डाभावे शारीरदण्डे च निषिध्दे, स्वल्पेऽप्यपराधे नभीकरणगृहभङ्गाङ्ककरणविप्रवासनं दण्डाभावो वा प्रसज्येत । 'चतुर्णामपि वर्णानां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत्' || इति स्मर णाच । तथा -- 'सहस्रं ब्राह्मणो दण्डयो गुप्तां विप्रां बला- द्वजन्' इति स्मरणात् (मस्मृ. ८ (३७८) । यत्तु शङ्खवच नम् - 'त्रयाणां वर्णानां धनापहारवधबन्धक्रियाविवा समाङ्ककरणं ब्राह्मणस्ये' ति । तत्र धनापहारः सर्वस्वापहारो विवक्षितो वधसाहचर्यात् । 'शारीरस्त्ववरोधादिर्जीवि तान्तः प्रकीर्तितः । काकिण्यादिस्त्वर्थदण्डः सर्वस्वान्त- स्तथैव च ' || इति वधसर्वस्वहरणयोः सहपाठात् । यद- • 'राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम् इति तत्प्रथमक्कृतसाहसविषयं न सर्वविषयम् । शारीरस्तु ब्राह्मणस्य न कदाचिद् भवति । 'न जातु ब्राह्मणं हन्या- त्सर्वपापेष्वपि स्थितम्' । इति सामान्येन मनुस्मरणात् । तथा मनुः – ‘न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि । तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत्' || -- प्युक्तम्
- मिता. २१८१
- सवि., ध्यप्र., बिता, नन्द. मितागतम् ।
भ्य. का. ३६ २८१ (४) त्रीन्वर्णान् क्षत्रियादीन् दण्डयित्वा देशान्निर्वास- येत् । ब्राह्मणं तु न दण्डयेत्, किन्तु वित्रासयेदेव । अभ्यासे विषयगौरवे वा विप्रोऽपि दण्ड्यः । अप. २१८१ , (५) कौटसाक्ष्यावृत्तिविषये ब्राह्मणस्य विशेषस्मर- गाच्च कः पुनरत्र विशेष: ? न पुनर्दण्डयित्वा प्रवा सनं क्षत्रियादेः ब्राह्मणस्य तु प्रयासनमात्रमिति विशेषो युक्तः । सकृत् कृतेऽपि कौटसाध्ये ब्राह्मणस्य याज्ञवल्क्येन प्रवासनविधानादम्यासेऽधिकदण्डानुक्तिप्रसक्त: । अतो यत्कैश्चिदुक्तम् - 'तुशब्दो ब्राह्मणे नदण्ड निवृत्यर्थ इति तदपास्तम् । कथं तर्हि ब्राह्मणे दण्डविशेष उक्तः ? उच्यते, प्रवासशब्देनात्र दन्तच्छदच्छेदनं जिह्वाच्छेदो मारणं चोच्यते । विवासशब्देन तु नमीकरणादिकम् । तेन दण्डयित्वेत्यस्यानुपङ्गेऽपि विशेषोक्तिर्युक्ता प्रवासन- विवासनावान्तरभेदात् दन्तच्छदच्छेदादयो नमीकरणा- दयश्व कौटसाक्ष्यविषयानुसारेणाभ्याससंख्याचिवृध्यनु सारेण चानुसंधातव्याः । अनवधारितहेतुके कौंटसाक्ष्ये सकृत् कृते ‘पृथक् पृथगिं त्यादिवचनोक्तो याज्ञवल्कीयो दण्ड: । अन्यत्र मानव इति चानुसंधेयम् । स्मृच: ९३ (६) भूयोभूयः कांटसाक्ष्यकरणे तु कौटमाध्यमिति । क्षत्रियादींस्त्रीन्वर्णान् कौटसाक्ष्यात्पूर्वतन दण्डवित्वा धार्मिको राजा स्वराष्ट्राद्विवासयेत् । ब्राह्मगं तु धनदण्ड- व्यतिरेकेण स्वराष्ट्रान्निःसारयेत् ।'न जातु ब्राह्मणं हन्यात्सर्व पापेश्ववस्थितम् । राष्ट्रादेनं बहिः कुर्यात् समग्रधनमक्षः तम् ॥ इति धनसहितनिर्वासनस्याभिधास्यमानत्वात् । r
मभु. (७) मिता. टीका - एतच्चान्यास विषय मिति । एतदुनं भवति - अनभ्यास त्वेकदैव कृतत्वेन भूतार्थं प्रत्ययान्तः शब्द: स्यात्कृतानिति । न च तथा वर्तमानार्थवाचि- । शानच्प्रत्ययान्तः शब्दः प्रयुक्तः कुर्वाणानिति । प्रारब्ध स्यापरिसमाप्तिर्हि वर्तमानता । पुनः पुनः कौंटसाक्ष्यमभि- धीयमानस्यापरिसमाप्तप्रायत्वाद्वर्तमानत्वमेव कौंटसाध्या- भिधानस्य अतोऽभ्यासविषयत्वमिति । ननु ब्राह्मण- स्यार्थदण्डो न युज्यते । दशसुवचने त्रयाणां वर्णानां क्षत्रियादीनां धनापहारवधबन्धक्रिया, ब्राह्मणस्य तु विवा सन मेवेत्युक्तत्वादित्याशक्य परिहरति ' यत्तु शङ्ख वचनं त्रयाणां वर्णानामि त्यादिना। एप परिद्वाराभिप्रायः)