पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ सर्वस्वहरणं ब्राह्मणस्य निषिध्यते न दण्डमात्रमिति । सुत्रो. २१८१ (८) दण्डोत्तरकालीनं कृत्यमाह- कौटेति । Xमच. याज्ञवल्क्य: कीदृशाः कियन्तश्च साक्षिणो भवन्ति तपस्विनो दानशीला: कुलीनाः सत्यवादिनः । धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः || व्यंवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापरांः । यथाजाति यथावर्ण सर्वे सर्वेषु वा स्मृताः ॥ (१) सर्वत्र च ऋणादानादौ व्यक्तिहेतचो लिखितं साक्षिणो भुक्तिश्चेति । तत्र भुक्ति: स्थावरादौ । अन्यत्र सु लिखितं साक्षिणश्र । तथा च नारदः- 'लिखितं साक्षिण- श्चैव प्रमाणे व्यक्तिकारके इति सामान्यविवक्षयैवाह | तेनार्थिप्रत्यर्थिभ्यां साक्षिभिर्लिखितेन वा स्वपक्षसिद्धिः कार्येत्युक्त किंलक्षणास्तु माक्षिणो लेख्यं चेत्येतद् वक्त- ध्यम् । तत्र साक्षिणस्तावदुच्यते - तपस्विन इति । तपःप्रभृतयो यथोपलब्धवादित्वे हेतवः । कथम् ? यो हि निष्कारणं परलोकसाधनैकप्रवणस्तपोदानादिप्रत्र व्यवहारकाण्डम् X शेषं ममुगतम् । (१) यास्मृ. २१६८; अपु. २५५/१; विश्व.२।७०; मिता.; व्यमा. ३१७; अप.; व्यक. ४४; पमा. ९४; स्मृला. ९० धना (गुणा); व्यचि. ३८; स्मृचि. ४४ धना- न्विताः (यशस्विनः); नृप्र. ९; सवि. १३६; व्यसौ. ४२; वीमि.; व्यप्र. ११०; विता. १५४ कुलीना: (धर्मज्ञाः); शकौ. ४०२; सेतु. ११७; प्रका. ४९; समु. २७. (२) यास्मृ. २१६९; अपु. २५५१२ पूवार्धे (पञ्जयज्ञ- क्रियायुक्ताः साक्षिणः पञ्च वा त्रयः); शुनी ४१६८१ वा स्मृ साः (साक्षिणः) उत्त.; विश्व. २१७१ श्रौत... रा: ( पचयज्ञ- क्रियारताः) सर्वेषु (सर्वासु) स्मृता: ( पुन:); मिता; व्यमा ३१७ परा: (रताः) यथाव (तथाव); अप.; ध्यक.४४; गौमि. १३१२ पू.; स्मृच. ७७ उत्त; ममु २१६८ उत्त; पमा. ९५; स्मृसा. ९९; व्यचि.३८ पराः (न्विता:); स्मृचि. ४४; नृप्र. ९; व्यत. २१२ परा: (रता:); सवि. १३६; चन्द्र. १३३ व्यचिवत् ; व्यसौ. ४२; वीमि.; व्यप्र. ११० ; व्यउ. ४७; व्यम. १६; विता. १५४; राकौ. ४ ० २; सेतु. ११७ य (अ) परा: (रता: ) ; प्रका. ४९ श्रौत ...…. पराः (शुचयः शुद्धबुद्धयः); समु. २७ सर्वेषु (सर्वासु); विग्य. ११ () उत्त. त्तोऽतिशयितेतरपुरुषप्रज्ञः स कथमिवात्मनो दृष्टादृष्ट- विरुद्धं विमार्गाश्रयिणः परस्यार्थेऽनृतं ब्रूयादित्यभि प्रायः । तपोदानादिभियें धर्मप्रधानतया सत्यवादिनः, ये वा कुलीनाः स्वकुलकलङ्कभीत्या, ये वा पुत्रिणो धनि- नच तद्विनाश भीत्या, प्रकृत्या ऋजव: उपलब्धातिरिक्त- वचनाशक्त्याऽनन्यथावादिनः, ते व्यवराः माक्षिणो ज्ञेया: । त्रयो येषामवरास्ते व्यवराः, त्रिप्रभृतय इत्यर्थः । साक्षिणां ज्ञेया इति प्रत्यक्षमूलत्वा भिप्रायम् । निपुणतः प्रत्यक्षादिभिर्लक्षणतः साक्षिणी निरूपणीयां इत्यर्थः । पञ्चयज्ञक्रियारता इति । आन्वाहिकाशक्यपरिहारहिंसा निष्कृत्यर्थं हि पञ्चयज्ञक्रियाविधानम् । तद् ये ह्यशक्य- परिहारामपि हिंसामपाकर्तु प्रवृत्ताः, ते कथमित्र स्वाभि- प्रायेणान्यायवर्तिजनबदसद्वादेषु प्रवर्तरन्नित्यभिप्रायः । एवं स्मृत्यन्तराण्यपि साक्षिप्रपञ्चविषयाणि व्याख्येयानि । यत्तु नारदेनैकादशबिधं साक्ष्यं कृताकृतत्वभेदेनोक्तं, तत् सौहदान्मुग्धजनव्युत्पत्त्यर्थम् | तच्च तस्मादेवावगन्त व्यम् । यथाजातीति । मनुष्य स्त्रीजातिभेदाभिप्राय वा जातिवचनम् | यथोक्तं नारदेन ' श्रेणीषु श्रेणिपुरुषा' इत्यादि । यथावर्ण च ब्राह्मणादीनां च साक्ष्यम् । सर्व वा सर्वामु जातिषु जातिशब्दाभिधेयत्वाद् वर्णेऽपिं स्त्रीलिङ्गाविरोधः । पुनःशब्दोऽवसरापेक्षया । साश्यन्तरा- भावे पुनर्वक्ष्यमाणकार्यापेक्षया वा सर्वे सर्वेपाम् । यथा 'सर्व: संग्रहणे साक्षीति । विश्व.२|७०-७१ (२) ते माक्षिणः कीदृशाः कियन्तश्च भवन्तीत्यत आह- तपस्विन इति । तपस्विनः तपः शीलाः । दानशीला दान- निरताः । कुलीना महाकुलप्रसूताः सत्यवादिनः सत्यवदन- शीलाः । धर्मप्रधानाः नार्थकामप्रधानाः |ऋजवोऽकुटिलाः। पुत्रवन्तो विद्यमानपुत्राः । धनान्विता बहुसुवर्णादिधन- युक्ताः । श्रौतस्मार्तक्रियापराः नित्यनैमित्तिकानुष्ठानरताः । एवम्भूताः पुरुषाः त्र्यवराः साक्षिणो भवन्ति । त्रयः अवराः न्यूना येषां ते त्र्यवराः, त्रिभ्योऽर्वाङ् न भवन्ति । परतस्तु यथाकामं भवन्तीत्यर्थः । जातिमनतिक्रम्य यथाजाति । जातयो मूर्धावसिक्तादयः अनुलोमजाः प्रतिलोमजाश्च । तत्र मूर्धावसिक्तानां मूर्धावसिक्ताः साक्षिणो भवन्ति । एवमम्बष्ठादिष्वपि द्रष्टव्यम् । वर्णमनतिक्रम्य यथावर्णम् | वर्णा ब्राह्मणादयः । तत्र ब्राह्मणानां ब्राह्मणा एवोक्तलक्षणा