व्यवहारकाण्डम् २७४ तत्र प्रियादीनां हन्तृतापत्तिः । अपरे च रूपवत्स्त्रीदर्शनेन परिफल्गुमनसः श्रूयन्ते भज्यमानहृदयाश्च विवेकशेन्या त्मानः, तत्र शीलवत्यः स्त्रियो दुष्येयुः । तदेवेदमापतितं मृतस्य ब्रह्महत्येति । सत्यमेवं यदि विधिप्रतिषेधविशेषो न स्यात् । विहितो हितोपदेशः प्रतिषिद्धं स्वहरणादि । तथा चाहुः– 'उपकारप्रवृत्तानां कथंचिच्चेद् विपर्ययः । न तत्र दोषः केपाश्चिद्भपजामौषधी यथा ॥ अत्र न केवलं वैद्यादेरातुरोपकारार्थिनः प्रयुक्तौषधस्य कथञ्चिद्विप रीततयोपपत्तावदोपः । किं तर्ह्यन्यस्यापि गवादेर्महति पङ्के निमग्नस्थोद्धर्तृभुजाकर्षणैश्रमेण यदि व्यापत्तिर्न तत्रो द्धर्ता दुष्येदिति कथितं भवति । एवं सर्वत्र । योऽपि कस्मिंश्चित्स्वव्यापारानुष्ठानवति धनरूपातिशयसंपद्वति दृश्यमाने दन्दह्यते, न तं प्रति कस्यचिच्छास्त्रार्थातिक्रमः । निश्चितो हि निमिर्त्तभावः प्रतिषेधस्य विषयो भवितुमर्हति । न च प्राण्यन्तराश्र- यिषु चैतनिकेषु धर्मेषु प्रतिक्षणमन्यथाभवत्सु स्वभाव विशेषावसायः । न हि शक्यमवसाययितुमयमस्या रूप- संपदा व्यापद्यत इति । न च निश्चिते प्रतिषेधविपये संभवत्यनिश्चितविषयता न्याय्या | यत्र तर्हि कथञ्चिद्वर्ण- विपर्ययशरीरशोषणादिना कुतार्किकपठिता स्यादपि निमित्तावगतिस्तत्र किं भ्रंशयितुं शीलं संयुज्यतां कामिन्या, भवतु वा पुरुषव्याँपत्तिरिति । नैतदेवं, न हीदृशी भवन्त्यपि निमित्तता प्रतिषेधस्य विषयः विध्य न्तरविरोधात् । अस्ति ह्यत्र व्यभिचारप्रतिषेधविधिः । न चांऽपि विध्यन्तरेणानवष्टब्धे विपये कृतावकाशा विधयो विरोधिविध्यन्तरविपय मास्कन्दितुमर्हन्ति । येऽपि मन्यन्ते, रागलक्षणां प्रवृत्तिं शीलसंरक्षणोपदेशो निषेधति, न शास्त्रलक्षणाम् । तेन, महानुभावतया नास्य तपस्विनो जीवितं " विच्छिन्द्यात् इति प्राणोजिहीर्षया मुमूर्षुणा संप्रयुज्येतं नासौ व्यभिचारप्रतिषेधमतिक्रामेत् । यत्तु विध्यन्तरविपये न विध्यन्तरं प्रवर्तत इति, नैवायं विध्यन्तरस्य विषयो, रागलक्षणत्वात् । ननु च प्रवृत्ता- षपि नैव शास्त्रमस्ति, नियोगविधाविव व्यभिचारानु- १ सू. २ सुत्यात्मा. ३ णाय यथाश्र. ४ त्ता. ५ सादितु ६ नां. ७ व्यापिनीति ८ य. ९ वा. १० रोषविध्यन्तरं वि. ११ सुं चेच्छेत् इ. १२ ज्यते. ज्ञानं स्मृत्यभावात् । अथाऽप्रवृत्तौ कामयेत मारणमिति प्रतिषेधभयात् प्रवर्तते सोऽपि प्रतिषेधो रागलक्षणामेव हिंसां प्रतिषेधयति । न चासौ रागतो न प्रवर्ततेऽपि तु प्रतिषेधभयात् या तु परोपकारतः प्रवृत्तिः साऽपि प्रति- षेधविषयपरिहारेण । योऽपि किञ्चिद्यावदयमहमात्मानं हन्मीति हन्यान्न तत्राप्रयच्छतो घातकत्वं व्यवहारो- च्छेदप्रसङ्गात् । मेधा. (२) क्व पुनस्तदनृतं वक्तव्यमित्यत आह - " [-'शूद्रेति' । इदं चात्यन्तधार्मिकप्रमादस्खलितपुरुपविषयं न त्वत्यन्ता धार्मिकविषयम् । तथा च गौतमः- 'नानृतवचने दोषो जीवनं चेत्तदधीनं न तु पापीयसो जीवनम्' इत्यादि (गौध. १३।२४-२५) । तत्र विषये प्रमाणान्तरेण राजा निर्णयं कुर्यात् न साक्षिभिः । न प्रमाणान्तरान्न चैवानु- मानादिनात्यन्तं साक्षिपरीक्षां कुर्यात् । न च 'न जानु ब्राह्मणं हन्यात्' इति वचनात् कथं ब्राह्मणस्य वध आपतेदित्याशङ्कनीयम् | उग्रदण्डत्वाद्राज्ञः कथञ्चित् संभवात् व्यवहारेऽन्यत्रापि चैवंविधे विषयेऽनृतस्येष्य- माणत्वात् । वधस्यामङ्गलत्वात् शूद्रादिक्रमेण निर्देशः । गोरा. (३) बुद्धिपूर्वसाहसादौ तु दृष्टे वधसंभवेऽपि सत्यं वाच्यम् । मवि. (४) न्व्यवहारे सत्याभिधाने सति शुद्रवैश्य- क्षत्रियव्राह्मणानां वधः संपद्यते तत्रासत्यं वक्तव्यम् । यस्मात् तस्मिन्विषयेऽनृतं यत्तत्प्राणरक्षणेन सत्याद्वि- शिष्यते ।
- ममु.
यत्र त्रैवर्णिकवधः सत्याभिधाने तत्रासल्यं वाच्यम् -शूद्रविडिति । चन्द्र. १५२ (६) तद्धीति । तद् अनृतम् । सत्येन धर्ममात्रमत्र तु विप्रादिरक्षा दृष्टार्थाऽहिंसाऽदृष्टार्थेति तद्द्वयमतो विशेष इति भावः । शूद्रेति क्रमवैपरीत्यं कृष्माण्डैरित्यादि- प्रायश्चित्तचतुष्टयस्य + सूचनार्थे, अन्यथा तदसंभवात् । Xमच.
- शेपं गोरावत् । +चतुष्टयस्येत्यस्यानन्तरं 'शूद्वादिषु क्रम'
इति टिप्पण्यामधिकम् । x वाक्यार्थो ममुवत् । १ हा.