पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी शोषयते व्रीहीनातप इत्यादावचेतनेषु गिजुत्पत्तिर्दुर्लभा । ! विधिप्रतिषेधावपि स्याताम् । यथा पातकपरिगणनाय ननु च परिहृतमेतद् व्याख्यातृभिः, 'मुख्योपचरितक्रिय' इति चेतनावद् वस्तूपचारे भिक्षा वासयति कारीषोऽध्या- पयतीति । न ह्यत्र चैतन्यकृत उपकारः । अपि तु निश्चितत्वात्तदन्यस्य प्रयोजकस्य । अध्ययनं ह्याचार्य- करणविधिप्रयुक्तं कुर्वाणस्य माणवकस्य शीतादिलक्षणं प्रतिबन्धकमनुवदति । कारी प्रयोजकत्वाद्धयारोपः ।। प्रेरकत्वाद्धि प्रयोजकमुच्यते । तच्चाऽचेतनस्य वायुजलादे- रमिकाष्ठादौ सुतरां दृश्यते । तदा विधिप्रयोजकस्तुति- प्रयोक्तृभिः (१) प्रेषणाद्यभावाद् गौणार्थाः शब्दाः स्युः । अथैतत्समर्थाचरणं प्रयोजकत्वं तच्च प्रयोजकस्य प्रयोज्य व्यापारानुगुणं प्रेषणा दिव्यतिरिक्त क्रियान्तराचरणं संवि धानाख्यम् । संविधान एव हि कारयतीत्युच्यते । यथा बुभुक्षमाणस्य कश्चित्पात्र माहरत्यन्यो भक्तमुपनयति, कस्यचिद्वधप्रवृत्तस्य कश्चिदायुधमर्पयति अन्यो वध्य- दोषाविष्करणेन मन्युमुपदीपयति । एवंलक्षण: प्रेषित्रादि- रूपरहितः सव्यापारः प्रयोज्यफल सिद्धावानुकूल्यं प्रतिपद्यमानस्तत्समर्थाचरणपक्षे प्रयोजकः । अस्मिन् पक्षे कारीपोपाध्यायौ तुल्यौ प्राप्नुतः । अत्रापि यमन्तरेण क्रियाया ॲनिर्वृत्तिर्यस्य च कारकविशेषसंज्ञा न (१)प्रव- र्तेत स मुख्यः प्रयोजकः कर्ता । अध्यापयितारं न्चान्तरेण कारीषो न शक्नोत्यध्ययनहेतुभावं प्रतिपत्तुम् । आचा- र्यस्तु तमन्तरेणापि शक्त एवेति गौणः कारीपः । यत्र च करणादिभावे निश्चित हेतुमत्प्रत्ययदर्शनं तत्रापि गौणार्थतैव । यथा कश्चित् स्वल्पेनाऽपि प्रयोजनेन दूरं ग्रामं पुनः पुनर्गतवन्तं दृष्ट्वा ब्रवीति, 'अश्वो गमयति देवदत्तम् ' इति । यत्र तु न कस्यचिदासत्तिविप्रकर्षा- वन्तरङ्गबहिरङ्कभावो वा गम्यते तत्र यावन्तस्तदानुकूल्यं मनुः पठति --- 'क्रय विक्रयी संस्कर्ता चोपहर्ता चेति । तस्मादन्वाख्यान सिद्धयर्थ तान्त्रिकी सा व्यवस्था न वस्त्व धिष्ठानमर्थमवस्कन्दति अत एव व्याख्यातृमिस्त- त्समर्थाचरणं चेद्धेतुमात्रे प्रसङ्गः । ततश्च योऽपि कस्मै चिद् भोजनं ददाति, स चौदरिकता तिसौहित्येन व्यापद्येत, प्राप्तं तत्र दातुर्वधकर्तृत्वमिति । न च तत्प्र- युक्तं भवति । क्रियान्तरेण ह्यसो निश्चितो भोजनैकार्य प्रयोजको न वधे न वैयदि (?) कथञ्चिन्निमित्तं भवति । भवतु, प्रयोजकत्वाभावात्तु कर्तृत्वं नास्तीति ब्रूमः । यस्य तु भूमिसुवर्णापहारादिनाऽपराध्येत स च तदपहारमन्युना कथञ्चिन्म्रियेत किं तत्रापहर्तुरपहारदोष एवोत वधेऽपि निमित्तीभाव इति चिन्त्यम् । किमत्र चिन्त्यते ? अव्यभि चारावगम्यत्वातु हेतुमद्भावस्य, न खड्गप्रहार भोजन- विच्छेदादेरित्र भूम्यादिहरणस्य नियतनिमित्तत्योपपत्तिः । कोऽयं नियमोऽभिप्रेतः १ नं हि केचित् म्रियन्ते केचि- न्नेति नियतो नियमो भवति, पुरुषस्वभावभेदात् । तदेवौषधं श्लेप्मिकस्य हितं विपरीतमन्यस्येति । सर्वे- मेव च भावानां देशकालस्वभावभेदसहकारिसापेक्षः शक्त्यन्तरप्रादुर्भावस्तदेव लक्षणं पुरुषवित्तसंततिसापेश्च पिपासाहेतु: " प्राण्यन्तरसपेक्षं तद्वच्छेदहेतुरिति । एव मत्यन्तामर्पिणो मन्युमतः स्वहरणपरिभवादि मरणाय कल्पते । किं तत्राशक्यो निमित्तभावोऽपह्नोतुम् ? पेशल- मानसस्य तूपेक्षेत्र तत्र । ये पुनर्मन्युपरीता अनशन श्वभ्रपतनविषभक्षणादिना परान् द्वारमुद्दिश्य म्रियेरंस्त त्राप्येष एव न्यायः । ननु चान्यस्यैव प्रसिद्धहेतुभावस्थ विषभक्षणादेर्निमित्तस्य तत्र दर्शनान्न भूम्यादिहरणस्या परोधी हन्तृत्वमाप्नुयात् तेनोपजनितमन्युः मरणंछेतुःः 19 , प्रतिपद्यन्ते सर्वे ते प्रयोजकाः । प्रवर्तत इति पारम्पर्यतो निमित्तत्वमिति चेत् । एवं सति पथ्योपदेशेनाऽपि किञ्चिदुद्विजमाना आत्मानं व्यापाद: यन्ति । ततश्च तत्रोपदेष्टारो हन्तारः स्युः । तथा मत्स रिणः परद्रव्येष्वीषया झुण्यन्तो धनिषु दोषमाददीरन् । तथाऽन्ये मूढमनसः प्रियान् पुत्रान् स्वामिनश्चानुम्रियन्ते । ननु च कारकसंज्ञायामन्तरङ्गयोगो नास्तीति को विशेषः कारीषोपाध्याययोः ? स्वप्रक्रियैव सा तत्रभवताम् । न वस्त्वाश्रया | वस्त्वाश्रयौ च विधिप्रतिषेधी । इदमपि : तत्र पठ्यते -- विवक्षातः कारकाणि भवन्तीति । एवं च सति यंत्राकर्तुरेव कर्तृत्वं कश्चिद् विवक्षेत् तत्र कर्तृप्रत्यय- १ च्च चैतन्यस्य. २ त्स्थम. ३ 'प्रयोज्ये' ति नास्ति ४ वर. ५ अनिवृत्ति ६ तहे. ७ नात्. व्य. का. ३५ २७३ १ यामनुपठति २ नाख्यप्र. ३ हर. ४ वोभयव ५ तिभा, ६ यदि छ वा के. ७ प्मिकोपछि ८ क्षा. ९ पेक्ष्यं. १० तुप्रा. ११ सापेक्ष्यं. १२ राधो. १३ न्यु. १४ णदेतो:.