पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी २७९ (७) इदमपि योगीश्वरवचनवद्विशिष्टाभावपरतया अनृतस्यैन सस्तस्य कुर्वाणा निष्कृतिं पराम् || व्याख्येयम् । अवचनानृतवचनाभ्यनुज्ञालाभाय । सत्या- द्विशिष्यत इत्यस्यायमर्थः ब्राह्मणादिवधप्रयोजकता निबन्धनाधिक दोषपरिहाराय अवचनानृतवचनप्रयुक्ता- ल्पदोषस्वीकार उचित एवेति प्रशंसार्थम् । यद्यपि ‘न जातु ब्राह्मणं हन्यात्सर्वपापेपिस्थितम् । राष्ट्रादेनं बहिः कुर्यात् समग्रधनमक्षतम् ॥ इत्यादिमन्वादिवाक्यै ब्रह्मणवधदण्डनिषेधाद्विप्रग्रहण मनईम्; तथापि तस्य वधस्थानीयदण्डप्रसक्तेस्तत्परिहारायैव अवचनानृत- (१) एवं प्रायश्चित्तचतुष्टयं यदाम्नातं, तत् तद्दि- शानुसाराच्छूद्रादिक्रमेण यथावर्ग क्रमशो द्रष्टव्यम् । शूद्र- स्वरूपापेक्षया च चरो: सकृवृत्तिरावृत्तिर्यथा स्यादिति चरुभिरित्युक्तम् । अस्मादेव च प्रायश्चित्तानृतानुज्ञानाद् राज्ञो नैयोगिकं वयानुपेक्षणमिति गम्यते । साक्षिणस्तु प्रायश्चित्तोपदेश मात्राद् राजकीय विनयानर्हा इत्यवसेयम् । । -- वन्चनाभ्यनुज्ञा | तथा च मनुः -- 'मौण्डयं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत्' इति ॥ स्मृत्यन्तरेऽपि - 'ब्राह्मणस्य वधो मौण्डयं पुरान्निर्वासन तथा । ललाटे चाङ्ककरणं प्रयाणं गईभेन च' इति ॥ न च वधशब्देनार्थद्रयपरिग्रहे वैरूष्पम् । निमित्तांशपातिनि तत्प्रसक्तावपि विधिवैप म्याऽप्रसक्तेः । यद्वा ‘गोरक्षकान् वाणिजकांस्तथा कारु- कुशीलवान् । प्रेष्यान्वार्धुपिकांश्चैव विप्रान् शुद्रवदाच रेत् ’ || इति मानवात्तेपां शूद्रवद्वधाभ्यनुज्ञाप्रतीतेस्तत्परं विप्रग्रहणम् । तथा च वधपदमुभयत्र मुख्यार्थकमेव । अयं त्वपराकतसमाधिरनुपादेयः | तस्य मानवस्य प्रकरणाच्छपथपरत्वेन दण्डविषयत्वाभावात् । ' सर्वपापेपस्थितम् । तस्मादस्थ वयं राजा मनसाऽपि न चिन्तयेत्' ॥ इत्यादिश्रवणाद् विप्रवधमात्रस्यैव परि हरणीयत्वप्रतीते | अथवा यत्र क्रोधाद्यावेशवशेनाति कम्य निषेधं विप्रस्यापि राजा म्लेच्छादिना वा वध दण्डः कर्तव्य इति संभावना तत्रैवेदमस्तु । यथाकथञ्चि- त्प्रसक्त्युपजीवकत्वादस्य, राज्ञोऽस्तु परं दोपः । पापी यसस्तु क्षत्रियांदेर्वधप्रसक्तावपि नोभयाभ्यनुज्ञेत्याह गौतमः - 'नानृतवचने... न तु पापीयसो जीवनम्' इति । व्यप्र. १३८- १३९ (८) उक्ते ऋत इति पदच्छेदः, संधिकार्यमार्षम् । उक्त्वार्तमिति वा पाठः । तत्र समानकर्तृत्वमार्षम् । नन्द. उक्तानृतवचनप्रायश्चित्तम् विश्व. २१८५ (२) वाक् चासौ देवता च सा वाग्देवता । तदर्थं च चरवो वाग्दैवत्याः | तण्डुला नातिपकाः चरवः र्यजेरन्निति । बहुवचन निर्देशात् चरुभिरिति बहुवचनम्, न पुनरेकैकशो बहवश्वरवः, नापि संहतानां व्रात्यस्तोम वद्यागो 'देवश्वेद्रपद्हवो ब्राह्मणा यजेरन् ' ( पूमी. १०/६/४५ ) इति तद्वहुवचनम् । न तु कपिजलैश्च त्रिभिर्यजेरन् । तदेतद्द्ब्राहाणाद्यनुग्रहार्थमनृतमुक्तं भवति । अनृतमेवैनः पापं असत्याभिधानलक्षणा क्रिया | यथा वर्मः क्रिया । अत एवं समानाधिकरणे पष्ठी । येषां तु क्रियाजन्यौ धर्माधर्मो न क्रियैव, तन्मतेऽनृतस्य यदेन इति वैय्यधिकरण्येनं अनृतनिमित्तत्वादेनोऽनृतं उप- चारतः समानाधिकरणे एव । तस्य निष्कृतिः शोधनं पावनं प्रायश्चित्तमिति यावत् । परा प्रकृष्टा । ननु च कुतोऽत्र पापम् ? यावताऽस्मिन्निमित्ते 'नानृतवचने दोप' इत्युक्तम् । केचिदाहुः 'नित्र तिस्तु महाफले ति अस्माच्छास्त्रात्तु यावजीवमनृतं मया न वक्तव्यमिति येन संकल्पितं तस्य मिथ्यासंकल्प- दोषो मा भूदिति प्रायश्चित्तमुच्यते । गेहदाहवधाप्रति पेघेऽपि नैमित्तिकं विधान मेनसो निष्कृतिरित्यनुवादः । इदं तर्हि कॅथं ? 'वाग्देवत्यैः सरस्वती यजेरन्' यदि

  • व्यप्रव्याख्यानं — कुष्माण्डवीऽपि इत्याद्यग्रिम लोके

द्रष्टव्यम् । (तैश्च); व्यक.५९ अपवत्; स्मृच.८९ त्यैश्च (त्यैस्तु) तस्य (तत्र); व्यचि.५६ अपवत्; व्यसौ. ५६; व्यप्र. १३५ अपवत्; विवा. १९३ त्यैश्च (तैस्तु) स्ते (स्तु) तस्य (तेऽस्य) निष्कृ (निक्र); प्रका. ५८ स्मृचवत्; समु.३६ तस्य (तत्र). वाग्दैवत्यैश्च चरुभिर्यजेस्ते सरस्वतीम् । (१) मस्मृ. ८/१०५; विश्व. २१८५; अप. २९८३ त्यैश्च ७ (०). , १ नु. २ धर्म. ३ वत. ४ वं. ५ (०). ६ मित्यर्थवादः. ५