साक्षी असाक्षिण: नोर्थसंबन्धिनो माप्ता न सहाया न वैरिणः । न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः || (१) तानि इमानि संभाव्यमान मिथ्याभिधानकरण- त्वेन पठ्यन्ते । तत्रार्थसंबन्धिन उत्तमर्णाधमर्णाद्याः । उत्तमर्णा ह्यधमर्णवचनेन पराजीयमानास्तदानीमेव रोषावेश॑तः स्तम्भयन्ति धनं प्रत्यादातुमधमर्णम्, अतो- ऽसौ संनिहितधनत्वाच्चित्तमनुवर्तमानः शक्यते । तस्मा- दसौ न साक्षी । उत्तमणऽपि निर्धनेऽधमणे व्यवहार- जयाच धनप्राप्तौ मह्यमयं प्रतिदास्यतीत्यनया बुद्धया कदाचित्तत्पक्षानुगुणं वक्तीति सोऽप्यसाक्षी । अथवाऽर्थः प्रयोजनम् । यस्य साक्षिणो विवादिभ्यां किञ्चित्प्रयोजनं साध्यं, तेन वा तयोः स उपकारगन्धान्न साक्षी । यो वा व्यवहारगतेनार्थेन समानफल इत्येवं- प्रकारा अर्थसंबन्धिनः । आप्ता मैत्रबन्धविकया कार्या भ्यन्तराः पितृव्यमातुलादयः । सहायाः प्रतिभूप्रभृतयः । वैरिणः प्रसिद्धाः । दृष्टदोपा अन्यत्र कृतकौटसाक्ष्याः, अन्यद्वा प्रतिषिद्धमाचरितवन्तः । व्याध्यात रोग- पीडिताः, न पुनरीषद्रोगिण इत्यार्तग्रहणम् । पीडितस्य हि क्रोधविस्मृत्यादयो मिथ्यावचने संभाव्यन्ते । दूषिताः पातकिनोऽभ्यस्तोपपातकाश्च । दृष्टदोपग्रहणं तु तेपा- मेव कृतनिग्रहाणां परिग्रहार्थम् । तेहि राजदण्ड ग्राहित्तविनयत्वान्न संप्रति दूषिता भवन्ति ।
- मेधा.
(२) साक्षिणो भयलोभरागद्वेपस्मृतिभ्रंशादिनाऽन्य थाभिधानाशङ्कायां न कार्याः । ऋणाद्यर्थसंबन्धिमित्र वैरिकृतकौटसाश्यव्याधिमूच्छित महापातकादिदृपिता न कार्याः । xगोरा. (३) अर्थसंबन्धिनस्तजयफलभागिनः । आप्ताः स्निग्धाः स्वस्य परस्य वा असाधारण्येन | सहायाः २५५ 1 भृत्याः वक्तः ।
- मवि
(४) अर्थसंबन्धिनः विप्रतिपद्यमानार्थस्य संबन्धिनः । आप्तास्तु कात्यायनेन दर्शिताः । Xस्मृच. ७७ (५) अत्र सर्वैर्विशेषणैरसत्यसंभाषण विस्मरणादिकम- साश्यनिमित्तमुपलक्ष्यते । अत एव वृद्धविकलेन्द्रिय- विकर्मकृत्तस्करादीनां गोत्रपन्यायेन पुनरुपादानम् । Xव्यप्र. ११७ ने साक्षी नृपतिः कार्यो न कारुककुशीलवौ । न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ ( १ ) त्वं मे साक्षी भविष्यसीति व्यवहारकृता धन- विसर्गादिकाले साक्षित्वे नृपतिर्नाध्येपितव्यः । तस्य हि साध्यं ददतः पक्षपातमाशङ्करन् । प्रभुत्वाद्वा ददतोऽन्य- तरस्य कार्यनाशः । न च साक्षिधमंण प्रष्टुं युज्यते । तद्देशवासी च यद्यपि लेखादिना संवादयेत्तथाऽपि माक्षिधर्म सबै न कुर्यादिति तद्देशवासिनो राज्ञः समान- करणप्रतिषेधः | कारुकादीनां स्वकार्यांपरोधशङ्कया। संगत्या च ते जीवन्ति । स्वभाव जानपदानां यत्स्वयं निश्चित वन्तोऽपि 'जीवयामहे वयमिति जिताः साक्षिका दिभ्यो रुप्यन्ति । ततश्च सार्वलौकिकी संगतिः कारुका- दीनामुच्छिद्यते । किञ्च प्रकृतिपरिलघुवात्तंपां वृत्तयश्चल- त्रिनुमपि शक्यन्ते । तथा च पक्षपातं भजेरन् । श्रोत्रि- यस्य तु साक्षित्वे कर्तव्यता प्रतिषिध्यत, राजवन्न पुनर प्रत्ययितता । न हि श्रोत्रियत्वं प्रामाण्यं विहन्ति जनय- त्येव विशेषतः । न हि श्रोत्रियत्वं विसंवादहेतुतयोप- लब्धमेवमुत्तरत्रापि । कारुकाः शिल्पोपजीविनः सूपकारा- यस्कारादयः । कुशीलवाः नटनर्तकगायनाद्याः । श्रोत्रियो
- शेषं गांरागनम
x पदार्थों मघावत् ।
- मच, नन्द, भाच. पदार्थो मेधावत् । ममु. गोरावत |
(१) मस्मृ.८।६४; व्यमा. ३२४ नार्थ (नात्म) न दृष्ट (अदृष्ट); व्यक.४५; मभा. १३ | ३ पू.; स्मृच. ७७; पमा. ९६; व्यचि. ४२; स्मृचि. ४ चे. ४६; नृप्र. १०; सवि. १३८; व्यसौ.४३; व्यप्र. ११६; बाल. २१८०; (१) मस्मृ.८/६९; व्यक.४६ ला(लिङ्गी स्थान ) विनिर्गत: (निवर्तक:); स्मृच. ७७();पमा १७ न लि (विलि) ; स्मुसा. १०० साक्षी... काय (कार्यो नृपतिः साक्षी) कास्ककुशलवी (चकारुकुशालवा:) पु.; व्यचि. ३७ साक्षी (कार्य) कार्यो (साक्षी) रुक (रुनं ) वी (वा:) पृ.) स्मृचि. ४६) नृप्र. १०; सवि. १३० काम (कामु) वी (वा:) निर्ग (वर्जि); व्यसौ.४४ फारुक (त्र कारु); व्यप्र. ११६६ बाल. प्रका. ४९ बृहस्पतिः; समु. २८. १ वेशवशिताः, २ ती. ३ मित्रबान्ध ४ भिर्वृत्तिदण्ड २८०० प्रका.४९-५० बृहस्पतिः; समु. २८ साक्षी (साध्ये).