पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ साक्षी च । व्यउ.४६-४७ भाव. (८) तत्र सभायाम् । साक्षी दृष्टश्रुताद्न्यद् विब्रुवन्नार्यसंसदि । अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच हीयते ।। (१) असंत्याभिधाने साक्षिणां फलदर्शनार्थमिदम् । दृष्टश्रुतशब्द उपलब्धिपर्याय इत्युक्तम् । तस्मादन्यदनु पलब्धं तच्चेद् ब्रवीति । आर्याः सम्याः सम्यकारिणः । तेषां संसदि सभायाम् । अवाङ् अधोमुखः, नरकं याम यातनास्थानं गच्छति । प्रेत्य मृत्वा, स्वर्गाच्च हीयते भ्रश्यति । यद्प्यनेन स्वर्गारोहणकं कर्म कृतं तदपि कौटसाक्ष्यपापस्य गुरुत्वात्प्रतिबध्यते । न तु स्वर्गस्य कर्मणः पापेनान्येन नाशः । स्वफल विधित्वात् कर्मणामन्यत्र प्रायश्चित्तेभ्यः । (२) आर्यसंसदि ब्राह्मणसभायाम् । (३) विब्रुवन् विशेषेण ब्रुवन् । नरकानुभवान्तेऽपि सुकृतनाशात् स्वर्गाद्धीयते न स्वर्गं प्राप्नोति । मवि. लेखानिबद्धोऽपि साक्षी भवति यंत्रानिवद्धोऽपीक्षेत शृणुयाद् वाऽपि किञ्चन । पृष्ठस्तत्रापि तद्ब्रूयात् यथादृष्टं यथाश्रुतम् || (१) ननु चोक्तं समझदर्शनादित्यत्र यथाकथञ्चिदनु भूतवतोऽनियुक्तस्यापि साध्य मस्तीति । तत्र किमनेन यत्रा निबध्दोऽपीति । को वा विशेषः ? उच्यते । लेख्यारूढस्य व्यापार विशेषायुक्तं साक्षित्वं न पुनरनारूदृस्य | आरोह स्यानर्थक्यप्रसङ्गाद्दुःसाक्षित्वम् । अत एतामाझ का मपनेतुमिदमुच्यते । पूर्वस्तु श्लोको यत्रानुक्ताः साक्षिणः । अयं तु यत्र ससाक्षिक लेख्यम् । अनिबन्दो लेख्यमना- व्यवहारकाण्डम्

  • ममु. मेधागतम् । मच. मेधागतं मविगतं च ।

x शेषं मेधागतम् ।

  • मेधा.

xगोरा. (१) मस्मृ. ८।७५; व्यक. ५९ अत्राङ् (आरात् ) मध्ये (माप्नो); स्मृच. ८६; प्रका. ५६; समु. ३४. (२) मस्मृ.८।७६क.,ख., घ. पुस्तकेयु पृष्टः ( दृष्ट:) ; शुनी. ४।६९१बद्धो (युक्तो) तद् (स); व्यक. ४२ऽपीक्षे(वीक्ष्ये);व्यत. २११ निब (निरु) ऽपीक्षे(वीक्ष्ये); व्यप्र. १०९; सेतु. ११६ ऽपी (वी); प्रका. ५२ डपी (वी) तद् ( यद् ); समु. ३१ प्रकावत. १ त्र मुक्तकाः. रूढोऽपीत्यर्थः । ईक्षणश्रवणे व्याख्याते | शेषं सुबोधम् । भेधा. (२) त्वं मे साक्षी स्या इत्येवमनिबध्दोऽपि यत्र किञ्चिद् ऋणादानादि पश्येत्, वाक्पारुष्यादि श्रुणुयात् तत्रापि पृष्टः सन साक्षी यथोपलब्धं कथयेत् । #गोरा. (३) अनिबद्धोऽनधिकृतः । प्रसङ्गात्तत्रागतः । मवि. (४) अयं त्वकृतसाक्षी सामान्येन मनुनोक्तः । अस्य 'ग्रामश्च प्राइविवाकश्च राजा चेत्यादिना नारदादिभिः पाडूविध्यमुक्तम् । ( ५ ) यत्र विवादपदे । (६) यत्र साध्ये | xममु. +नन्द. +भाच. साक्षिसङ्ख्या पृष्ठोऽपव्ययमानस्तु कृतावस्थो धनैषिणा । व्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ || (१) यः कृतावस्थ आहूतोऽभियुक्तो गृहीतप्रतिभूश्च राजसकाशे प्राड्विवाकेनान्यैवी पृच्छयते - किमस्मै धार- यसि नेति पृष्टः सन्नपव्ययतेऽपह्नुते हुवानो धनैषिणा स्वधनं पूर्वप्रयुक्तमात्मनः साधयितुमिच्छता साक्षिभि- र्भाव्यो विप्रतिपन्नः प्रतिपादयितव्यः । व्यवरैस्त्रय अवरे येषां तैस्थ्यवरैः । अवरमपचयातिशयमाह- यद्यत्यन्तं न्यूनास्तदा त्रयः स्युः । अन्यथा त्रिभ्य ऊर्ध्वम् । नृपब्राह्म- णसंनिधाविति । ननु च तेषामेव यैर्न्याय: प्रारब्धस्तत्र तत्संनिधान एव साक्षिप्रश्नः प्राप्तः किमनेन नृपब्राह्मण- संनिधाविति । नैवं, प्रमाणपुरुषप्रेषणेनाऽपि साक्षिप्रश्न उपपद्यत इति साक्षात्प्रट्रव्य इति पुनर्वचनम् । ÷मेधा. (२) कृतावस्थः आसेधादिना कृतमवस्थानं यस्य सः, तथा । व्यक. ४३ (३) भाव्यः साधनीयः | त्रित्वादूनसंख्या साक्षिप्व- प्रशस्तेत्यर्थः । स्मृच.७६ भाच. (४) कृतावस्थः कृतपीडः ।

  • मच. वाक्यार्थी गोरावत् । x वाक्यार्थो गोरावत् ।

+ शेषं मविगतम् । ÷ गोरा., ममु. वाक्यार्थ: मेधावत् । (१) मस्मृ. ८ / ६०; व्यक. ४३ णा (णाम् ); मभा. १३ २ र्भाव्यो (र्भाग्यं ) उत्त. ; समु. ७६ उत्त.; व्यसौ. ४० विणा (रिव) कात्यायनः; प्रका. ४९; समु. २८. स्तु (श्व).