व्यवहारकाण्डम् श्रीमू. ३५० । मानान्तरेण परमार्थे विज्ञाते सति द्रष्टव्यम् । साक्षिद्वैधे बहुत्वगुणाधिक्याथनुसारेण निर्णयः | राजगामि धनम् । साक्षिभेदे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः । मध्यं वा गृह्णीयुः । तद् वा द्रव्यं राजा हरेत् । साक्षिणश्चेदभियोगादूनं ब्रूयु- रतिरिक्तस्याभियोक्ता बन्धं दद्यात् । अतिरिक्तं वा ब्रूयुस्तदतिरिक्तं राजा हरेत् । बालिश्यादभि योक्तुर्वा दुःश्रुतं दुर्लिखितं प्रेताभिनिवेशं वा समीक्ष्य साक्षिप्रत्ययमेव स्यात् । साक्षिभेद इति । साक्षिणामन्योन्यवचनविसंवादे, यतः यस्मिन् पक्षे, बहवः शुचयः अनुमता वा, तिष्ठ- न्तीति शेषः, ततो नियच्छेयुः तं पक्षमाश्रित्य व्यवहारं निर्णयेयुः । मध्यं वा गृह्णीयुः उभयोः पक्षयोः साक्षि गुणसाम्ये उभयसमं कमपि प्रकारं गृह्णीयुः । तदसंभवे विसंवादितमर्थ राजा गृह्णीयादित्याह- तद्वा द्रव्यं राजा हदिति । साक्षिण इति । ते चेदमियुक्तद्रव्याद् ऊनं ब्रूयुः तर्हि अभियोक्ता, अतिरिक्तस्य स्वार्थितस्य, बन्धं पञ्चभागं, दद्यात्, राज्ञे । अतिरिक्तं वा ब्रूयुः अभियोक्त्रर्थितादधिकं वा साक्षिणश्चेद् ब्रुयुः, तर्हि, तद् अतिरिक्तं राजा हरेत् । अत्रापवादमाह - बालिश्यादभियोक्तुर्वेति । अभियोक्त मौद् वा दुःश्रुतं लेखकेनान्यथाश्रुतं, दुर्लिखितं अन्यथा लिखितं च, समीक्ष्य पर्यालोच्य, प्रेताभिनिवेशं वा बन्धुमरणशोक निमित्तं लेखक चित्तविक्षेपं च, समीक्ष्य, साक्षिप्रत्ययमेव स्यात् साक्षिवाक्याप्तिनिर्णयमेव ऋणा- दानं स्यात् । श्रीमू. अनिर्णये विसंवादिसाचिदण्ड: साक्षिबालिइयेष्वेव पृथगनुयोगे देशकाल- कार्याणां पूर्वमध्यमोत्तमा दण्डा इत्यौशनसाः । साक्षिचालिश्येष्वेव पृथगनुयोग इति । प्रत्येकं प्रश्ने साक्षिणां मौर्यकृतेषु वचनविसंवादेषु, देशकाल- कार्याणां विसंवादे इति शेषः, पूर्वमध्यमोत्तमा दण्डाः यथासंख्यं पूर्वादिसाहसदण्डाः । इति औशनसाः । कूटसाक्षिण इति । कपटसाक्षिणः, यमर्थम्, अभूत वा कुर्युः असत्यमेव कल्पयित्वा ब्रूयुः, भूतं वा नाश येयुः यमर्थ सत्यमेव हीनं कथयेयुः, तद्दशगुणं कल्पित नाशितदशगुणं दण्डं दः । इति मानवाः । बालिश्याद् वा विसंवादयतां चित्रो घात इति बार्हस्पत्याः । बालिश्याद्वेति । मौख्यद्, विसंवादयतां विसंवादं कथयतां, चित्रो, घातः वधः । इति बार्हस्पत्याः । श्रीमू. नेति कौटल्यः | ध्रुवा हि साक्षिणः श्रोतव्याः | अशृण्वतां चतुर्विंशतिपणो दण्डः, ततोऽर्धम- ध्रुवाणाम् । नेति कौटल्य इति । एतच्च विशेषपरं न तु प्रति- बेधपरम् । विशेषश्चायं - यद् ध्रुवसाक्षिण एव साक्षि- पदे कर्तव्या इति । तदाह – ध्रुवा हि साक्षिणः श्रोतव्या इति । अशृण्वतां श्रवणार्थमाहूतानामनागतानां ध्रुवाणां, चतुर्विंशतिपणो दण्डः । ततोऽर्धं द्वादशपणः, अध्रुवाणाम् । तत्र ध्रुवाश्चत्वारिंशत्कुलिकाः, तदनन्तर्गता अध्रुवाः । श्रीम. कूटसाक्षिणो यमर्थमभूतं वा कुर्युर्भूतं वा ताशये युस्तद्दशगुणं दण्डं दगुरिति मानवाः । साक्षिण धर्माधिकरणे आनयनायाः देशकाला विदूरस्थान साक्षिण: प्रतिपादयेत् । दूरस्थानप्रसारान् वा स्वामिवाक्येन साधयेत् || अध्यायान्ते श्लोकमाह -- देशकाला विदूरस्थानिति । देशतः कालतश्चादूरस्थितान् साक्षिणः प्रतिपादयेत् अर्थी स्वयमेवानीय वादयेत् । दूरस्थान, अप्रसारान् वा समीपस्थानेवाहूतानागतान् वा, स्वामिवाक्येन प्राविवा- काज्ञया, साधयेत् आनाययेत् । श्रीमू. मनुः कीदृशाः साक्षित्वमर्हन्ति यांहशा धनिभिः कार्या व्यवहारेषु साक्षिणः । तादृशान् संप्रवक्ष्यामि यथा वाच्यमृतं च तैः ॥ (१) साक्षिलक्षणोपन्यासः श्लोकः । यादृशाः साक्षिणो (१) मस्ट ८/६१; व्यमा ३१७ ऋतं (मतं); व्यक.४४ धनि (अर्थि); स्मृच.७५; मा.९४; व्यचि.३८ व्यकवत् ; श्रीमू. स्मृचि.४४; नृप्र.९ यथा... तैः (यथावदनुपूर्वश:); व्यसौ ४२ व्यकवत् ; व्य. ११० व्यकवत् ; बाल. २१६८ व्यकवत् ; प्रका.४८; समु. २७.
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३२८
दिखावट