सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० व्यवहारकाण्डम् 'गोऽश्वपुरुषभूमिषु दशगुणोत्तरान् । (१) उक्तानामुत्तरं दशगुणान् दशगुणोत्तरान् । गवादिविषयेऽनृते साक्षी पूर्वोक्ताद्दशगुणोत्तरं तत्तद्र्ध- युक्तदोषो भवति । एतदुक्तं भवति - गवानृते साक्षिणो गोशतहननदोषः । अश्वानृतेऽश्वसहस्रहननदोषः । पुरुषा नृतेऽयुतपुरुपहननदोषः । भूम्यनृते यस्य सा भूमिस्त जातीयानां लक्षहननदोष इति । 'पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषा नृते ॥ इत्येतत्तु अत्यन्तक्षुद्रपश्वादिविषयम् । गौमि. (२) 'पञ्च पश्चनृते' इत्यादि यदुक्तं स्मृत्यन्तरे तत्परिग्रहविशेषापेक्षया प्रयोजनापेक्षया वा द्रष्टव्यम् | मभा. सर्व वा भूमौ । (१) यदि वा भूमिविषयेऽनृते सर्वमेव मनुष्यजातं हन्ति । ग्रामदेशादिमहाभूमिचिपयो विकल्पः । गौमि (२) भूमिविषये शतसहस्रं सर्वे वा मनुष्यजातम् । कृताकृतक्षेत्रभेदेन विकल्पो द्रष्टव्यः । मभा. हैरणे नरकः । (१) प्रासङ्गिकमिदम् । भूमेरिति विपरिणामेन संबन्धः । भूमेर्हरणे नरको भवति । कालान्तरावधिः शास्त्रान्तराव सेयः । गौमि. मभा. (२) अविशेषात् आ कल्पाद् भवति । दोपवचन- प्रसङ्गेनैतदुक्तम् । भूमिवदप्सु | अश्विषयेऽनृते भूमिवल्लक्षहननदोपो हरणे नरक इति च समानम् । अप्शब्देन कूपतडागादिरुपलक्षितः । गौमि. " मैथुनसंयोगे च । मैथुनसंयुक्त चानृते परदारानसौ गच्छतीत्यादौ, भूमिवदिति चकाराद् गम्यते । गौमि. [ 'भूमिवदप्सु' 'मैथुनसंयोगे च' इति सूत्रद्वयस्थाने मस्करिणाऽन्यथैव पठितम् । तद्यथा ] - (१) गौध. १३११६; मभा; गौमि. १३/१५. (२) गौध. १३।१७; मभा; गौमि. १३/१६, (३) गौध. १३११८; मभा. ; गौमि.१३ १७. (४) गौमि. १३११८. (५) गौमि. १३ १९. अप्सु मैथुनसंयोगे च । अप्सु कूपाद्याधारावस्थितासु । मैथुनसंयोगे च पर- स्त्रीगमनादावित्यर्थः । संयोगग्रहणात् कन्यालक्षणादा वपि । चकारः अबूग्रहणं मैथुनविशेषणं मा भूदित्येव मर्थः । भूमिवद्दोषः । एवं त्र हरणेऽपि नरको द्रष्टव्यः । मभा. पशुवन्मधुसर्पिषोः । मधुसर्पिर्विषयेऽनृते क्षुद्रपशुवद्दोषः ।

  • गोवद्वस्त्रहिरण्यधान्यब्रह्मसु ।
  • गौमि.

ब्रह्म वेदः । वस्त्रादिविषयेऽनृते गोवद्दोषः । अधीय ‘नास्मान्मयाऽधीतमि त्यादि ब्रह्मानृतम् । *गौमि. यानेष्वश्ववत् । हस्तिशकटशिबिकादीनि यानानि, तद्विषयेऽनृतेऽश्व- वद्दोपः । अन्ये तु 'क्षुद्रपश्वनृत' इत्यारभ्य साक्षिश्रावणं योजयन्ति । क्षुद्रपश्वनृते साक्षिणो दशपशुहनन- दोपः । तस्मात् त्वया सत्यमेव वक्तव्यमिति साक्षी श्रावयितव्य इति । एवं सर्वत्रोपरिष्टादपि । गौमि. (२) केचिदन्यथा व्याचक्षते पशुवन्मधुसर्पिषोरित्या- रभ्य पश्चनृतवद्दोषः मधुसर्पिषोर्हरणे । वस्त्रादिहरणे च गोवद्दोषः । तत्र ब्रह्मशब्देन वेदाङ्गानि, लिखितानि पुस्तकान्याहुः । यानहरणे चाश्वानृततुल्यो दोष इति । Xमभा. मिथ्यावचने साक्षिदण्ड: "मिथ्यावचने याप्यो दण्ड्या साक्षी । (१) एवमदृष्टविषये दोषमुक्त्वा दृष्टविषये साक्षिणो दण्डमाह-मिथ्येति । मिथ्यावचने दृष्टे साक्षी याप्यो गर्हाः सर्वैरयमसंव्यवहार्य इति, दण्डयश्च राशा | गौमि. (२) यदि त्वेवमपि दोषे उक्ते साक्ष्यनृतमेव वक्ति ततः मिथ्येति । अनृत उक्ते याप्यः गर्ह्यः सर्वलोकसमक्षं संव्यव हारविच्छेदनार्थम् । पुरुषशक्त्यादिविज्ञानात् तन्मूल्या-

  • मभा. गौमिवत् । x शेषं गौमिगतम् ।

(१) गौध.१३।१९;मभा. (२) गौध. १३१२०; मभा.; गौमि.१३।२०, (३)गौध.१३।२१; मभा.; गौमि.१३। २१. (४) गौध.१३।२२; मभा.; गौमि. १३१२२. (५) गौध. १३१२३; मभा.; गौमि. १३१२३; स्मृच. ९२; प्रका. ६ ०; समु.३८.