सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी प्रमाणेन दण्डश्च भवति । अर्थप्रयोजनापेक्षया परिग्रह- विशेषापेक्षया च समस्तव्यस्तपरिकल्पनार्थश्चकारः । अधिकारादेव सिद्धे साक्षिग्रहणं स एव याप्यो दण्ड्यश्च । संभ्यादयो दण्ड्या एवेति । मभा. साक्षिणोऽनृतवचनदोषापवादः नौनृतवचने दोषो जीवनं चेत्तदधीनम् + । (१) अदोषत्रचनं चाल्पदोपाभिप्रायं प्रायश्चित्त विधानसामर्थ्यात् द्रष्टव्यम् । विश्र. २१८५ (२) यदा सत्यवचनात् परस्परवधोऽनृतवदने तु तदधीन मनृतवचन निवन्धनमन्यस्य जीवनं भवति न वधः, तत्रानृतवचने न पूर्वोक्तो दोप इति । अत्र याज्ञवल्क्यः - -'वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् । तत्पावनाय निर्वाप्यश्चरुः सारस्वतो द्विजैः' इति ॥ गौमि. (३) ‘साक्षिधर्मे विशेषेणे’ त्यादिभिर्वचनैर्य दधिकपात- कमुक्तं तदत्र नास्तीति । स्मृच.८९ - (४) पापीयसस्तु क्षत्रियादेर्वधप्रसक्तावपि नोभया भ्यनुज्ञेत्याह गौतमः - नानृतेति । व्यप्र. १३९ (५) महाभारते, 'न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले | प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि' ॥ सेतु. १२३ नं अनृतवचनदोपापवाद प्रतिप्रसवः तु पापीयसो जीवनम् । + अत्रत्यं मेधातिथिव्याख्यानं 'शूद्रविक्षत्रे' ति ( मस्मृ. ८/१०४) लोके द्रष्टव्यम् । * मभा. गौंमिवत् । (१) गौध. १३ | २४; विश्व . २१८५; मेघा. ८/१०४ वचने (बदने) चेत्तद ( चैतद ); अप. २१८३ जीवनं (जीवितं); व्यक. ५९; मभा.; गौमि.१३।२४; मवि. ८/१०४३ स्मृच. ८९; ममु. ८ | १०४ वचने ( वदने) पो + ( यत् ); दीक. ३९ जीवनं चेत्तद्धीनम् ( जीवितं तदधानं चेत् ); व्यचि. ५६ पो+ (अस्ति); ब्यत. २१५; व्यसौ.५६; वी. २८३ जीवन चेत् तदधीनम् ( अस्ति जीवनं तदधीनं चेत् ); व्यप्र.१३९ वनं (वत:); त्रिता. १९१ तब (ते व ) षो+ (अस्ति); सेतु. १२३; प्रका. ५८; समु. ३६. (२) गौध. १३।२५; गोरा. ८।१०४; अप. २१८३; व्यक. ५९; मभा; गौमि. १३१२५; मवि. ८/१०४; ममु. म. का. ३१ २४१ (१) यदि त्वनृतवचनेन पापीयसः पापवत्तरस्य परपीडारतस्य जीवनं भवति तदा न तु न दोषः । अपि तु दोष एवेति । गौमि. (२) तुशब्दो विशेपार्थः एतज्ज्ञापयति अवश्यम्भाव्य- नृतवचने दोषः, तथापि तु वधनिमित्तात् सल्याइनृत. मेव विशिष्टमल्पतरदोषत्वादिति । तथा च मनु:- 'शुद्रषिक्षत्रविप्राणां यत्रोक्तार्थं भवेद्वधः । वक्तव्यमनृतं तद्धि तत्र विशिष्यत' इति ॥ यदेवं मन्येत - जीवन्नप्ययं पापकर्मरतिरेव भवति स्तेयाद्यैव करोतीति तदा सत्यमेव वक्तव्यमित्यभिप्राय: । पापीयस इत्यातिशायनिकप्रत्ययनिर्देशः । परपीडाकर्तयव सत्यं वक्तव्यं, न विहिताकरणमात्रे प्रतिषिद्धकरणमात्रे वेति । तंत्र मभा. सर्वधर्मेभ्यो गरीयः प्राविवाके सत्यवचनम् । आपस्तम्बः साक्षी कदा कुत्र कथं च वंदेत् पुण्याहे प्रातर नाविद्वेऽपामन्ते राजवत्युभयतः समाख्याप्य सर्वानुमते मुख्यः सत्यं प्रश्नं ब्रूयात् । पुण्याहो देवनक्षत्रम् | प्रातमध्याह्लादिपु । अग्ना विद्धे अग्निमिध्वा तत्समीप । अपामन्ते उदकमुपनिधाय तत्समीपे । राजवति राजाधित सदसि । राजग्रहणं प्राविवाकादेरुपलक्षणम् । उभयतः उभीरर्थिप्रत्यर्थिनोः समाख्याप्य किमहं युवयोः प्रमाणभूतः साक्षीत्यात्मानं ख्यापयित्वा । यदि वा उभयतः उभयोरपि पक्षयोः सत्यवचने च असत्यवचने च साक्षिणो यद् भावि फलं तत्, 'सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गमे यसि । अनृ- तेन महाघोरं नरकं प्रतिपत्स्यसे' || इत्यादिना प्रकारेण समाख्याप्य प्राडूविवाकादिभिः पृष्ठ इति शेपः । सर्वा- नुमते अर्थिप्रत्यर्थिनोः सभ्यानां चानुमतौ सत्यां सभ्यो मुख्यः साक्षिगुणैरुपेतो दोपैश्च वर्जितः साक्षी प्रश्नं पृष्ठ- मर्थ सत्यं यथा आत्मना ज्ञातं तथा ब्रूयात् ।

  • व्याख्यानं स्थलादिनिर्देशश्च सभाप्रकरणे ( ५.२५ ) द्रष्टव्यः ।

८१०४; दीक. ३९; व्यचि. ५६; व्यत. २१५; व्यसौ. १६; वीमि. २१८ ३; व्यम. १३९; विता. १९१; सेतु. १२३. (१) आध. २१२९॥७; हिध. २१२० (प्रातर् ० ) ख्याप्य (ख्यान:).