क्रिया 'ततोऽर्थी लेखयेत्' इत्यनेन गतार्थताऽस्य नापैति । मिताक्षराव्याख्याने तु द्वयोरपि भाववादितयार्थित्वसाम्ये 'ततोऽर्थी लेखयेत्' इत्येतद्वचनाविषयत्वात्कस्यात्र ·क्रियेत्यपेक्षायामेतद्वचनारम्भो घटते । तथा च मिता- क्षरायामुक्तम्– ‘एतस्य च सर्वव्यवहार विलक्षणत्वाद्भेदेनो - स्वीकरणे, येन प्रमाणेन धनवान् धनं भुङ्क्ते । अन्यथा पन्यास ' इति । पत्रं, साक्षिणो, भुक्तिरित्येतत् त्रिविधं प्रमाणं धनस्य +व्यप्र. १३३ न कश्चिद् धनी धनमुपाश्नुते । 'धनमलाः क्रियाः सर्वा' इत्यारभ्योक्तैरुपायैरार्जितं धनं धनी प्रमाणैः सुस्थितैर्भुङ्क्ते । अपरिपालने प्रमाणानां सर्वमेतदुपायेन धनोपार्जितवचन- मनर्थकं स्यात् । स्वस्वामिभावस्याऽव्यवस्थानात् । (६) पूर्ववादिनः प्रतिज्ञावादिनः । पूर्वपक्षः प्रतिज्ञा। अधरीभूते कारणोत्तरोपन्यासेन प्रत्यर्थिस्वीकारेणासाध्ये । साक्षिग्रहणं प्रमाणान्तरस्याप्युपलक्षणार्थम् । व्यम. ९ 6 (७) एकस्मिन्नहादौ द्वयोर्दानपत्रसाक्ष्यादिसत्वे निर्ण यमाह - साक्षिष्विति । विज्ञानेश्वरव्याख्यानं 'आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' इति सिद्धेर्व्यर्थमित्या भाति । विता.१०२ नारद: प्रमाणोपन्याससमयः पूर्वपादे हि लिखितं यथाक्षरमशेषतः । अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् || (१) यदर्थिना पूर्वभाषायां लिखितं तत्तेन तृतीय- पादेन क्रियया खरीकरणीयमित्यर्थः । अभा. २४ (२) पूर्ववादो भाषा । अभिलिखितं पूर्वपक्षाभिभा- वकतया लिखितं उत्तरमिति यावत् । तृतीयपादः प्रत्याकलिताख्यः । तस्मिन् सति क्रिया प्रमाणम् । एवं चायमर्थः । भाषोत्तरप्रत्याकलिताख्यपादत्रये सति क्रियया प्रतिपादयेत् स्वकार्यमर्थ प्रमाणेन साधयेदिति । Xस्मृच. ५४ (३) (स्मृतिचन्द्रिकाव्याख्यानमुद्धृत्योक्तम् ) प्रत्या कलितस्य तृतीयव्यवहारपादत्वमभ्युपगच्छता स्मृति चन्द्रिकाकारेणैवमिदं वचो व्याख्यातम् । मिताक्षराकार मते तु तृतीयपादक्रिययेति संमुख एवार्थः । व्यप्र. ८२ + वाक्यार्थव्युत्पादनं मित्तावत् । x सवि. स्मृचवत् । (१) नास्मृ. २ २७; शुनी. ४/६५१ उत्त.; अभा. २४; स्मृच. ५४ पूर्वपादे...तं (पूर्ववादेडभिलिखित); पमा ८ ७ हि (वि) बृहस्पतिः; सवि. ११० यया (यायाः) शेषं स्मृचवत् ; व्यप्र.८२ (८) हि लिखितं (sपि लिखिते); प्रका. ३४ स्मृच- वद; समु. २७ स्मृचबत्. ब्य. का. २८ २१७ निर्णयसाधनानि लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् । धनस्वीकरणे येन धनी धनमवाप्नुयात् || नाभा. २१६५ नौकरिष्यद्यदि स्रष्टा लिखितं चक्षुरुत्तमम् । तत्रेयमस्य लोकस्य नाभविष्यच्छुभा गतिः ॥ तत्र तावल्लिखितप्रशंसा-नाकरिष्यदिति । अभा.४७ देशकालफलद्रव्यप्रमाणावधिनिश्चये । सर्वसंदेहविच्छेदि लिखितं चक्षुरुत्तमम् ॥ गृहीत्वाऽपि स्थले द्रव्यं योऽपह्नवितुमिच्छति । स्थापितः साक्षिभिर्मार्गे स दुःसाध्योऽपि साध्यते ।। अथ साक्षिप्रशंसा | अभा.४७ "लिखितं साक्षिणश्चैव द्वौ विधी परिकीर्तितौ । संदिग्धार्थविशुद्धयर्थं द्वयोर्विवदमानयोः ॥ (१) अत्र वादिप्रतिवादिनोः परस्परं विवदमानयो- रेकतरस्याऽपि दोषेण योऽर्थः संदिग्धो भूतः तस्य संदि- ग्धार्थस्य विशुध्यर्थ स्फुटीकरणार्थी लिखितं साक्षिणश्चैव द्वावेव विधी मुनिनाऽत्र प्रकीर्तितौ । न तु सत्याधिक- गुणमपि तृतीयं दिव्यम् । तथा तोयगतिसंततनित्य- प्रवृत्तस्याष्टादशपदोपलक्षितलोकसंव्यवहारस्य या शीघ्र- (१) नासं. २१६५ स्मृतम् (विदुः) मवाप्नुयात् (मुपाश्रुते); नास्मृ. ४/६९; अभा.४७; मेधा. ८८१४८ पू.) स्मृच. ५५ पृ.; स्मृसा. १११ मवाप्नुयात् (मुपाश्श्रुते); स्मृचि. ४२ पू., याज्ञवल्क्यः; सवि. १११ पु. (२) नास्मृ.४।७० ; अभा. ४७ तत्रेयमस्य (ततो पन्धस्य). (३) नास्मृ.४/७१; अभा.४७ ये (य:) : ६२. (४) नास्ट. ४/७२; अभा.४७ स्थले (शगे). (५) नासं. ११३ परिकीर्ति (संप्रवति); नास्ट. ११३; अभा. ३; विश्व.२|७० (लिखितं साक्षिणश्चैव प्रमाणे ब्यक्तिकारके) पू.; स्मृच. ५५ श्चैव (श्चात्र) प. सवि. १११ स्मृचवत्, पू.; प्रका. ३५ स्मृचवत् पू. १ समु. २५ स्मृचवत्, पू.
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२९५
दिखावट