पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ व्यवहारकाण्डम् सुखोपायसाधनभूता मानुषी क्रियैवैषा साक्षिलिखितपूर्वा तावन्नित्योपयोगिनी । या पुनदैविकी क्रिया साऽतिमह- त्स्वेव प्रयोजनेषु महतैव प्रारम्भेण परिक्षीणोपक्षयमहा- दण्डस्वरूपा भवतीत्येतदर्थ साक्षिलिखितावेवात्र श्लोके गृहीताविति । अभा.३ (२) यत् 'लिखितमि'ति न तत्संख्यानियमार्थ, तथात्वे ‘लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्' इति स्ववचनेन विरोधापत्तिः स्यात् । अतो बहुविषयत्व- मितरयोरिति वक्तुं 'द्वौ विधी परिकीर्तितौ' इत्युक्त मित्यवगन्तव्यम् । + स्मृच.५५ (३) संदिन्धश्चासौ अर्थश्च संदिग्धार्थः तस्य विशु द्धिनिर्णयस्तदर्थम् । नाभा. १।३ प्रमाणबलाबलविचारः 'लिखितं बलवन्नित्यं जीवत्स्वपि हि साक्षिषु । साक्षिभ्यो लिखितं श्रेयो लिखितान्न तु साक्षिणः ।। 'लिखितं बलवन्नित्यं जीवन्तश्चैव साक्षिणः । कालातिहरणाद् भुक्तिरिति शास्त्रविनिश्चयः ॥ (१) अत्र बलाबलप्रमाणं निरूपणेनोक्तम् । यदेत- ल्लिखितं नाम तत्प्रयत्नरक्षितं सन्मृतेष्वपि धनिकर्णिक साक्षिषु पुत्रपौत्रप्रपौत्रसंततिसंबध्यमानद्रव्यस्य उभयपक्ष संभावितसंव्यवहारस्य प्रतिष्ठाप्रविष्टं द्रव्यप्रमाणसंदेहवि च्छेदकारकं भवति । साक्षिणस्तु जीवन्त एवं प्रमाण- मिति, जीवतां चैतदपेक्षया 'लिखितं बलवन्नित्यमित्यु `क्तम् । यदा पुनः कालातिहरणं भवति, तदा चतुर्थपञ्चम पुरुषोपरिष्टादपि अपरिमितकालादपि संततभुक्त्यैव धनी धनमवाप्नुयात् इति शास्त्रस्य निश्चयः । एतत्प्रमाणबला बलमुक्तम् । अभा.४७ (२) एभ्यः स्वल्पकालभुक्तिसाक्षिलिखितेभ्यो बहु + सवि. स्मृचवत् । (१) अभा. ६६ जीवत्स्वपि हि साक्षिषु (जीवन्तश्चैव साक्षिणः); व्यमा.३१४ : ३४० पू.; स्मृसा. ११२; विव्य १०. (२) नासं. २१६६ श्चै (स्त्वे) त्रवि (स्त्रेषु); नास्मृ.४।७५ वन्त (बित); अभा. ४७; व्यक. ७१ नासंवत् ; स्मृसा. १०५ स्त्रवि (स्त्रेषु); ग्यचि. ७१ औ (स्त्वे ) तिह (भिइ ) त्रविनिश्व (लेषु निर्ण); स्मृचि.४९ नासंवतः ब्यसौ. ६७ नासंवत्; प्रका. ३५ तिह (दिइ) त्रवि (खेषु); समु.४४. काला भुक्तिर्बलवती । व्यक.७१ (३) भुक्तिस्तु बहुना कालेनाप्यविच्छिन्ना प्रमाणम् । ततोऽपि पत्रं नित्यत्वात्प्रमाणम् । Xनाभा. २६६ 'त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् । पूर्व पूर्व गुरु ज्ञेयं भुक्तिस्तेभ्यो गरीयसी * ॥ तदेतत्त्रिविधं ज्ञेयं प्रमाणाय न साधितम् । संदेहमागतमपि धनी धनमवाप्नुयात् ॥ मानुषदैविक भेदौ २ 3 क्रिया तु द्विविधा प्रोक्ता मानुषी दैविकी तथा । मानुषी लेख्यसाक्षिभ्यां घटादिदैविकी स्मृता || (१) मिथ्या कुर्वतः प्रतिवादिनः साधनार्थ क्रिया द्विप्रकारा दृष्टा मानुषी दैविकी च । तत्र मानुषी लेख्यसाक्षिरूपा । दैविकी - 'घटोग्निरुदकं चैव विप कोषश्च पञ्चमः' इत्येवमादिका । अभा. २४ (२) लेख्यसाक्षिभ्यां भुक्त्या च प्रोक्ता मानुपीत्यर्थः । भुक्तेरपि मनुष्यसंबन्धित्वात् । + स्मृच.५० दैवमानुषप्रमाणयोर्विषयभेदेन व्यवस्था दिवा कृते कार्यविधौ प्रामेषु नगरेषु वा । संभवे साक्षिणां चैव दिव्या न भवति क्रिया ॥ (१) यानि दिवा कृतानि कार्याणि भवन्ति तेषु श्रोतारो द्रष्टारश्च संभवन्ति । लिखितमपि संभवति । तेनैतेषु प्रदेशेषु मानुष्येव क्रिया प्रमाणं न दैविकी । तथा संभवे साक्षिणामिति- यच्च ससाक्षिकमेव प्रयोजनं वृत्तं तत्र साक्षिसंभव एवं विद्यमाने दिव्या क्रिया न x शेषं अभागतम् । * व्याख्यासंग्रहः भुक्तिप्रकरणे द्रष्टव्य: । + सवि. स्मृचवत् | (१) नासं.२।६७ स्तेभ्यो (वैषां); नास्मृ.४७६; अभा. ४७ ; व्यक.७१ स्ते (रे); स्मृसा. १०५ व्यकवत् : १११ स्तेभ्यो (स्तासां); व्यचि.७१ व्यकवत्. (२) नास्मृ. ४/७४;अभा.४७. (३) नास्मृ. २१२८ तु (sपि); अभा. २४ तु (sपि) ख्य (ख); स्मृच. ५०; सवि. १०५; प्रका. ३२; समु. २५. , (४) नास्मृ. २१२९; अभा. २४; व्यक. ३८; स्मृच. ५१ वा (च) दिव्या (दैवी); व्यनि. नारदबृहस्पती; सवि. १०६ ( =) स्मृचवत्; चन्द्र. १२७ दिवा... धौ (दिवा कृतेषु कार्येषु ) वा (च) संभवे साक्षिणां (संभवत्साक्षिणी) दिव्या न (न दिव्या); व्यसौ. ३७ वा (च) नारदबृहस्पती; प्रका. ३२ स्मृचवत्, समु. २५ स्मृचव.