पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ दिति (१) । तदयुक्तम् । याज्ञवल्क्यवचने उत्तरार्धेनोत्त- रवादिन उपादानात् तत्प्रतियोगिभूतस्य भाषावादिन एव पूर्ववादिपदेनोपादानात् । अत एव विष्णुः - 'द्वयो- र्विवदमानयोर्यस्य पूर्वपक्षस्तस्य साक्षिणः प्रष्टव्याः, आधर्य कार्यवशात् यस्य पूर्वपक्षस्य भवेत्तत्र प्रतिवादिनोऽपि' अत एव प्रतिवादिपक्षप्रतियोगिकः पूर्वपक्षभाषार्थ एव प्रतीयते । किंच पूर्वत्वेन वादोऽन्यस्य परवादित्वे सति भवति तदा तु परवादितयैव तस्य पराजितत्वात् 'किं साक्षिभिः १ अथाऽसौ न परवादी तदा कथमितरः पूर्व वादी | किञ्च तद्वचनान्तरेणाधौ प्रतिग्रहे इत्यादिनैव बलवत्त्वोक्त्या तद्ग्रहणस्य सिद्धत्वात् अनर्थकमिदं स्यात्, दुर्बलक्रियाग्रहणस्याऽसंभवीयत्वात् । किञ्च उभयोस्तु कारणोक्तौ कस्य क्रिया निर्देश्या, तस्याऽपि कारणोत्तरतया प्रतिवादिनः क्रियानियमात् प्रतिवादिन एवेति, तन्न 'प्रपद्य कारणम्' इत्यादीनां गुरुतरकारण विषयत्वेन तस्य वर्णितत्वात् तद्धि नेतरदिति । समाधम- कारणोत्तरे सति भाषार्थस्यैव प्रतिवादिनोक्तेः । अत एवं पूर्वपक्षेऽधरीभूत इत्याधर्य पूर्वपक्षस्येत्यादिना भाषा- र्थस्याsवधारणे प्रतिवादिनः क्रियोच्यते । अधरत्वं च अलवदपेक्षं भवति । न तु समानमधमं वा । तद्धिनेतर दिति गुरुतरं विना । अत एव, 'पूर्ववादो भवेद्यस्य भवेयु॒स्तस्य साक्षिण' । इति पूर्वभूताध्यादिवर्णन मिति हेयम् । किन्तु समानकारणाभिधाने पूर्ववादिन एव क्रिया, प्रथमस्यैव विनिगमनाकारणत्वात्, अर्थित्वाव ष्टम्मेन च व्यवहारप्रवर्तनेन पीडातिशयानुमानात् अन्यायगृहीतस्य लोके पीडातिशयदर्शनात् । एवं दुर्ब लकारणाभिधानेऽपि पूर्ववादिन एव क्रिया, उत्तरस्य दुर्बलत्वेन ज्ञापितस्याऽपि पूर्वबाधाक्षमत्वात् एतन्न्याय- मूलमेबोक्तं तद्धि नेतरत् गुरुतरं विनेत्यर्थः । दुर्बलका रणोदाहरणन्तु आध्यादिविषयं पूर्वदर्शितम् । 3 व्यमा.३०८-३०९ (४) उभयतः साक्षिसंभवे पूर्वपक्षवादिना निर्दिष्टाः साक्षिणः प्रमाणं भवन्तीत्युत्सर्गः । यदा तु पूर्वपक्षोऽधरो जातस्तदोत्तरवादिनिर्दिष्टाः साक्षिणः प्रमाणं भवन्ति । कः पुनर्व्यवहारोऽस्य वाक्यस्य विषयः ? न तावन्मिथ्यो- व्यवहारकण्डम्

  • स्मुसा, व्यचि. व्यत. व्यमावद्भावार्थः ।

" त्तरवान् । न हि तत्र वादिद्वयस्य साक्षिणः संभवन्ति । तथा हि - सुवर्णशतं मे धारयसीति पूर्वपक्षवादि- नाऽभियुक्तो नाहं धारय इति मिथ्योत्तरवादी ब्रूते । तत्र साक्षिणामसंभव एव । यो ह्यर्थोऽन्येषामुपलब्धं योग्यस्तत्रैव तेषां साक्षित्वसंभवः । न च मिथ्यावायु- क्तोऽर्थः परेषामुपलम्भयोग्यो येन ते तत्र साक्षिणः स्युः । भुक्तिलिखितयोस्तु प्रमाणत्वमत्र नाशङ्कनीयमेव । तस्मान्न मिथ्योत्तरवान् व्यवहारोऽस्य विषयः । नापि प्रत्यवस्कन्दोत्तरवान् । तत्र पूर्वपक्षवादिनः प्रमाणोपन्या- सोपयोगाभावात् । तथा हि-सुवर्णशतं धारयसीति पूर्व- वादी सति प्रत्यवस्कन्दे ब्रूते- सत्यं धारितवान स्मि किन्तु मया तत्तुभ्यं दत्तमिति धारणस्य परेणाङ्गीकृतत्वा- त्वान्न प्रमाणसाध्यता । सिद्धसाव्यताप्रसङ्गात् । किन्तु प्रतिवादिन एव प्रमाणमुत्तरवादिना वाच्यम् । एवं प्राङ्न्यायोत्तरवानपि व्यवहारो नास्य वाक्यस्य विषयः । न ह्युत्तरवादिनिर्दिष्टेरेव साक्षिभिः प्राङ्न्यायदार्शभिस्तै- र्दत्तेन वा जितपत्रेण पूर्ववादिनः पराजय उत्तरवादिनश्च विजयः सिध्यति । तस्मान्निर्विषयमिवेदं वाक्यं प्रति- भाति । उच्यते- प्रत्यवस्कन्दप्राङ्न्यायोत्तरवान्न्यायोऽस्य विषयः । सन्ति हि तत्र पूर्ववादिनोऽपि साक्षिणः । तथा हि - प्रत्यवस्कन्दिना यद्धारितवानस्मि तन्मया तुभ्यम- र्पितमित्युक्ते पूर्ववादी यदैवं प्रत्युत्तरं कुरुते - सत्यं त्वया - ऽर्पितं तत्तु पुरुषान्तराय दत्तं न तु मां प्रत्यात्मानमनृणी- कर्तुम् । एतच्च साक्षिभिरहं संभावयामीत्येवंविधोत्तरप्रत्यु- त्तरयोरुभयतः साक्षिसद्भावः । तथा प्राङ्न्यायोत्तरेऽपि यदैवं पूर्ववाद्युत्तरं करोति — सत्यं प्राङ्न्याये कदाचित्त्व- याऽहं पराजितोऽस्मि किन्तु तन्न्यायं कुदृष्टं कृत्वा न्याया- न्तरे मया भवान् पराजित इति । तदोभयत्रापि साक्षि- सद्भावः । तत्रेदं वचनम् - 'साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः' इति । यदा तु पूर्ववादिनः प्रत्युत्तरभा- वादधरीभावस्त देदमुच्यते- 'पूर्वपक्षेऽधरीभूते भवन्त्युत्त- रखादिनः' इति ।

  1. अप.

(५) तत्रापि वक्तव्यम् । तादृशविषयेऽपि प्रत्यवस्क- न्दनप्राङ्न्याययोरसाध्यतया प्राग्वादिन एवार्थिद्वदिम्नि जाते तस्य निरुत्तरतायां तु प्रत्यर्थिन एवेति द्वेधापि

  • वीमि. वाक्यार्थ: अपंवत् ।