पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रिया 1 त्तरभेदव्यवहारमेदव्यवस्थया द्वयोरपि पूर्ववाक्योपात्तसा धन लेखनसग्रस्त्वार्थाक्षितोत्तरलेखन विलम्बापवादोपपत्तेः । न चोत्तरलेखनं सर्वत्र प्रत्यर्थिन एवेति तद्विलम्बानुमति विमत्योस्तं प्रत्येव प्रतिपादनमर्हमिति वाच्यम् । एता- वतापि क्रियोपन्यासप्रतिपादकवचनस्थार्थिपदेन भाषा- वादिमात्रग्रहणाग्रहे नियामकाभावात् । प्रत्युत 'मिथ्या क्रिया' इत्यादिवचनार्थसंग्रहाय द्वयोरपि ग्रहणमर्थि- पदेनेत्यस्यैव युक्तत्वात् । एवं सति मिताक्षरायां पूर्वा परविरोधापादनमज्ञान विलसित मेवेत्यास्तां तावत् ।

  • व्यप्र.८०-८१
  1. विता. ७३

(७) लेखयेत् सभ्यैः । साक्षिषूभयतः सत्सु साक्षिण: पूर्ववादिनः । पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ।। ( १ ) एवं तावद्यत्र साक्षिणः स्युः तत्र तदधीनैव निर्णीतिः,तदभावे विपर्यये वा देशान्तरगमनादिभिर्लिङ्गैः। यत्र तर्हि द्वयोरपि साक्षिणो लिङ्गानि वा देशान्तरगमना दीनि, तत्र कथम् ? उच्यते–साक्षिप्विति । व पुनर्विषये द्वयोः साक्षिसंभवः यत्रोत्तरवादी प्रत्यवस्कन्दनेन व्यवहार- माक्षिपति। यथा केनाप्युक्ते ममानेनामुष्मिन् काले देशे चैवं द्रव्यं गृहीतमिति, अथापरो वदति सत्यं यद्येवं, अहं पुन स्तस्मिन्काले निर्दिष्टदेशाद् देशान्तरस्थमात्मानं साक्षिभिः साधयामीति । तत्र द्वयोः साक्ष्यभ्युपगमे पूर्ववादिन एव साक्षिणो भवेयुः । तत्प्राधान्यात् व्यवहारप्रवृत्तेः । यत्र स्व(१)प्रमाणीकृतः पूर्वः पक्षः तत्रोत्तरवादिन एव साक्षिणः स्युः । यथा, सत्यं यथैवायमाह, तत्तु मयास्य प्रतिनि- र्यातितम् । एवं च साक्षिभिः साधयामीति | विश्व.२।१७ (२) उभयतः उभयोरपि वादिनोः साक्षिषु संभ- षत्सु साक्षिणः पूर्ववादिनः । पूर्वस्मिन्काले मया प्रति

  • शेषं मितागतम् ।

(१) यास्म्रु.२।१७; अषु.२५३४५-४६; विश्व. २११७; मिता.; व्यमा. ३०७ घरी (वरी); अप.; व्यक. ३७; पमा. ११८ ; स्मृसा. ९४ साक्षिण: (बिशेया:); व्यचि. २९; व्यनि. (=); व्यत.२०८; चन्द्र.११७ वंवादिनः (र्वपक्षिणः) पक्ष (बादे); व्यसौ.३५१वीमि.२ ७ उत्त: २११७ : २९९५ (८) पू.; ब्यप्र. १३२३ ग्यम. ९३ विता. १०१-१०२:१८२(=) उत्त.; सेतु. १०७; समु. ३२; विग्य. ९. २१५ गृहातमुपभुक्तं चेति यो वदत्यसौ पूर्ववादी | न पुनर्यः पूर्व निवेदयति, तस्य साक्षिणः प्रष्टव्याः । यदा त्वन्य एवं वदति सत्यमनेन पूर्व प्रतिगृहीतमुपभुक्तं च, किन्तु राज्ञेदमेव क्षेत्रमस्मादेव क्रयेण लब्ध्वा मह्यं दत्तमिति, अनेन वा प्रतिग्रहेण लब्ध्वा मह्यं दत्तमिति । तत्र पूर्व- पक्षोऽसाध्यतयाऽधरीभूतस्तस्मिन्पूर्वपक्षेऽधरीभूते उत्तर- कालं प्रतिगृहीतमुपभुक्तं चेति वादिनः साक्षिणः प्रष्टव्या भवन्ति । इदमेव व्याख्यानं युक्ततरम् । मिथ्योत्तरे पूर्व- वादिनः साक्षिणो भवन्ति । प्राङ्न्यायकारणोक्तौ पूर्वपक्षे- ऽधरीभूते उत्तरवादिनः साक्षिणो भवन्तीति व्याख्यानम- युक्तम् । अस्यार्थस्य–'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थ- साधनम्' इत्यनेनैवोक्तत्वात्पुनरुक्ति प्रसंगात् । पूर्वव्याख्या- नमेव स्पष्टीकृतं नारदेन - 'मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि । प्राङ्न्यायविधिसिद्धौ तु जयपत्रं क्रिया भवेत् ॥ इत्युक्त्वा, 'द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ॥ इति वदता । एतस्य च पूर्वव्यवहारविलक्षणत्वाद्भेदेनो- पन्यासः ।

  • मिता.

(३) साक्षिषु गुणसाम्ये सतीदं, असाम्ये तु बल- वत्तरग्रहणम् । तदाह बृहस्पतिः - 'साक्षिद्वैधे प्रभूतास्ते ग्राह्याः साम्ये गुणाधिकाः । गुणिद्वैधे क्रियायुक्तास्तत्साम्ये शुचिमत्तराः ॥ तथा मनुविष्णू- 'बहुत्वं परिगृह्णीयात्सा- क्षिद्वैधे नराधिपः । समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजो त्तमान् ॥ न च गृहीतानां वचनद्वैधपरमिदं वचनं, साक्षि- द्वैध इति निर्देशात् साक्षिणामेव ग्राह्यतया निर्देशात् । न तु तत्तद्वचनस्य | न्यायसाम्याद्वा उभयविषयपरत्वमेव वव नस्य, एवं चैकस्य सति पत्रेऽन्यस्य साक्षिणो न ग्राह्याः ।

यथा कात्यायन:- क्रिया न दैविकी प्रोक्ता विद्यमानेषु

साक्षिषु । लेख्ये च सति वादेषु न स्याद्दिव्यं न साक्षिणः || स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् । साक्षिभिर्लिखितेनाथ भुक्त्या चैव प्रसाधयेत् ॥ विश्व- रूपेणापि साक्षिणः पूर्ववादिनः इत्यादि प्रतिग्रहविषयं व्याख्यातम् । तत्रैव पूर्वबलवत्वात् । अन्ये तु–'प्राङ्याये कारणोक्तौ च प्रत्यर्थी साधयेत्क्रियाम् । मिथ्योत्तरे पूर्व- वादी प्रतिपत्तौ न सा भवेत् ॥ इति हारीतेन नियमा-

  • व्यक, पमा, व्यनि. मितागतम् ।