२१४ व्यवहारकीण्डम् (५) खकारात् प्रत्याकलितापरनामक मनुमानाख्यं ! (' ततोऽथीं ' इत्यादिना ) भावप्रतिज्ञावादिन एव प्रमाणं समुच्चिनोति । इति चतुर्विधलौकिकं प्रमाणमु क्रिया इति व्यवस्था दर्शिता । च्यते विचारकैरुपदिश्यते कर्तव्यतया । प्राक्तनचकारो- ऽत्राप्यन्वेति, तेनालौकिकस्य शपथस्य दिव्यभिन्नतया नारदेनोक्तस्य समुच्चयः । वीमि. वादिनोर्मध्ये कदा कतरेण प्रमाणोपन्यासः कर्तव्यः तंतोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥ (१) न कालं हरेदित्यर्थः । विश्व. २।७ (२) एवमुत्तरे पत्रे निवेशिते साध्यसिद्धेः साधना- यत्तत्वात्साधननिर्देशं कः कुर्यादित्यपेक्षित आह-तत इति । तत उत्तरानन्तरमथ साध्यवान् । सद्य एवा- नन्तरमेव लेखयेत् । प्रतिज्ञातः साध्यः स चासावर्थ- श्चेति प्रतिज्ञातार्थः, तस्य साधनं साध्यतेऽनेनेति साधनं प्रमाणम् । अत्र सद्यो लेखयेदिति वदतोत्तराभिधाने कालविलम्वनमण्यङ्गीकृतमिति गम्यते । तच्चोत्तरत्र विवे चयिष्यते । अर्थी प्रतिज्ञातार्थसाधनं लेखयेदिति वदता यस्य साध्यमस्तिस प्रतिज्ञातार्थसाधनं लेखयेत् इत्यु- क्तम् । अतश्च प्राङ्न्यायोत्तरे प्राङ्न्यायस्यैव साध्यत्वात् प्रत्ययँवार्थी जात इति स एव साधनं लेखयेत् । कार- णोत्तरेऽपि कारणस्यैव साध्यत्वात्कारणवाद्येवार्थीति स एव लेखयेत् । मिथ्योत्तरे तु पूर्ववाद्येवार्थी स एव साधनं निर्दिशेत् । ततोऽथीं लेखयेदिति वदता अर्थ्यव लेखयेन्नान्य इत्युक्तम् । अतश्च संप्रतिपयुत्तरे साध्या- भावेन भाषोत्तरवादिनोर्द्वयोरप्यार्थिलाभावात्साधननिर्देश एव नास्तीति तावतैव व्यवहारः परिसमाप्यत इति गम्यते । एतदेव हारीतेन स्पष्टमुक्तम्- 'प्राङ्न्यायकार णोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्व वादी तु प्रतिपत्तौ न सा भवेत्' इति ॥ *मिता.२।७
- व्यक., व्यचि., व्यत, सवि. मितागतम् ।
(१) यास्मृ. २१७; अपु. २५३३७; शुनी. ४/६५८; विश्व. २१७; मेधा.८/५६; मिता. २१७, २१९६ ; व्यमा. ३०६ ; अप.; व्यक. ३८; स्मृच. ५०; पमा. ८७; व्यचि. १५, २६ नम् (कम् ); व्यनि.; स्मृचि. ४२; नृप्र. ७; ब्यत. २१०व्यचि- वत् ; सवि.९९;ष्यसौं.३६; वीमि. २१७ : २११६ व्यचिवत; व्यप्र.८ ०,१०२; व्यम.९; विता. ७३; राकौ. ३९३; सेतु. १०९ ततो (अतो) नम् ( कम्); प्रका. ३२; समु. २५; विष्य.८. मिता. २।९६ (३) सद्य एव क्रियां निर्दिशेत् उक्तमात्र एव न च तत्राप्युत्तरदानार्थमिव कालापेक्षा कार्या । प्रागेवाऽर्थिनः साक्षिपत्रादिस्थिरीकरणेन सुनिश्चितबलाधानस्य प्रवृत्त. त्वात् । प्रत्यर्थिनोऽप्युत्तरदानार्थं दत्त एव कालः स्वप्रमा- गस्य स्थिरतापूर्वकमुत्तरदानात् । Xव्यमा. ३०६ aais + अप. (४) अर्थी पूर्ववादी...... लेखयेत्सद्य इति मिथ्योत्तरविषयम् । (५) राजकृत्यस्य निर्णयस्य क्रियामूलकत्वात्तन्निर्दे- शस्य च वादिकृत्यत्वात्तमधिकृत्य तृतीयं क्रियापादमाह -तत इति । ततः सदुत्तरे प्रतिवादिकृते लेखिते च राज्ञाऽर्थी चाऽभिहितार्थप्रमापणार्थी यथायथं वादी प्रतिवादी वा प्रतिज्ञातस्य स्वयं समभिहितस्याऽर्थस्य साधकं साक्षि लिखितादिकं स्वयमुपन्यस्य राजनियुक्तद्वारा लेखयेत् । सद्य इत्यनेन प्रमाणोपन्यासे न विलम्बः कार्य इत्युक्तम् । वीमि. (६) लेख येत् लेखकद्वारा । स्वयं वा लिखेदित्यपि द्रष्टव्यम् । दृष्टार्थत्वात् । अत्र चण्डेश्वर:- 'साहसस्तेयपारुण्यगोऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ इत्यत्र सद्यो विवादयेत् उत्तरं दापयेदित्यनेन प्रत्य- र्थिपक्षस्य लिखने विलम्बप्राप्तौ साहसादिषु तत्पक्षमपि सद्य एव लेखयेदिति योऽपवादः स यदि प्राग्भापावादि- पक्षलिखने विलम्बोक्त्यार्थप्राप्तः प्रत्यर्थिपक्षलिखनवि- लम्ब: स्यात् तदैव घटते नान्यथेत्येतद्वाक्यव्याख्याने यदर्थिपदेन प्रत्यवस्कन्दनप्राङ्न्याययोः प्रत्यर्थ्येवार्थी जात इति स एव साधनं लेखयेदिति प्रत्यर्थिनोऽपि ग्रहणमिति मिताक्षराकारेण व्याख्यातम् । तत् पूर्वापर विरोधान्मन्दमित्याह । तदतिसाहसम् । भाषोत्तरवादि- पक्षमात्रलेखनपरत्वं यद्यनयोर्वाक्ययोस्तर्हि साधनपदान- नन्वये समासानुपपत्तेः संदर्भविरोधाच्च । साधनलेखन- स्यैवोत्तरलिखनोत्तरमाकाङ्क्षितत्वात् । साहसादिष्वप् x शेषं मितागतम् । + व्यम अपगतम् ।