गौतमः उत्तरे कालदानम् उत्तरम् CEN 'संवत्सरं प्रतीक्षेताप्रतिभायाम् । यदा अभियुक्तस्यार्थिनः साक्षिणो वाऽप्रतिभा भवति वक्तव्यं न प्रतिभाति, स्वयं जाड्या युपे तत्वादर्थस्य वा चिरनिर्वृत्तत्वादिना दुर्निरूप्यत्वात्तदा संवत्सरं प्रतीक्षेत । एतावता कालेन निरूप्य ब्रूहीति कालं दद्यात् । #गौमि. शीघ्रोत्तरस्थानानि धेन्वनडुत्स्त्री प्रजननसंयुक्ते च शीघ्रम् । (१) संयुक्तशब्दः प्रत्येकं संवध्यते । धेन्वादिसंयुक्त विवादे शीघ्रं विवादयेत् । प्रजननं विवाहस्तद्धेतुत्वात् । स्त्री दास्यादिः । तथाह कात्यायन:- 'धेनावनुडु हि क्षेत्रे स्त्रीषु प्रजनने तथा' । गौमि. (२) 'संवत्सरमि' त्यस्यापवादः धेन्विति । धेन्वादि- संबन्धे व्यवहारे न सवत्सरं प्रतीक्षेत । कालक्षेपे धेन्वा ग्रुपभोगकालोऽतीतो भवतीति । धेनुः सक्षीरा गौः । अनड्डान् बलीबर्दः, असावपि संवत्सरभोगेन जीर्थतीति । स्त्रीप्रजनन संयुक्तेऽपि च संयुक्तग्रहणस्य प्रत्येक मभिसंव ध्यमानत्वात् । स्त्रीप्रजननं कन्याविवाहः । संवत्सरप्रती क्षणे तस्यापि कालातिक्रमो भवतीति । विवाह इति वक्तव्यमिति चेन्न, प्रजननयोग्यग्रहणार्थत्वात् । एवं चासमर्थायाः संवत्सरप्रतीक्षणेऽपि न दोपः । स्त्रीग्रहणं सवर्णजात्युपसंग्रहार्थम् । ततश्वासवर्णायां प्रतीक्षणं कर्त व्यमिति सूचयति । चकार: प्रत्येकमिति सूचनार्थः । धेनुसंयुक्ते अनडुत्संयुक्त इत्यादि मा भूत् समुदिताना मेव विषय इति । शीघ्रग्रहणं नाडिकामात्रस्यापि प्रतीक्षण- प्रतिषेधार्थम् । मभा. आत्ययिके च ।
- मभा. गौमिगतम् ।
(१) गौध. १३१२८; मभा; गौमि. १३१२८; स्मृच. ४२ (अप्रतिभायाम्०); प्रका. २६ स्मृचवत्; समु. २०. (२) गौध. १३१२९; मभा; गौमि. १३।२९. ( ३, गौध. १३(३०; मभा.; गौमि. १३१३०. (१) 'व्यपैति गौरवं यत्र विनाशस्त्याग एव च । कालं तत्र न कुर्वीत कार्यमात्ययिकं हि तत्' || इति कात्यायनः । एवमादावात्यथिके कार्ये शीघ्रं विवादयेन्न कालं दद्यादिति । याज्ञवल्क्यः - साहसस्तेयपारुष्यगो डभिशापात स्त्रियाम् । विवादयेत्सद्य एवं कालोऽन्य त्रेच्छया स्मृतः इति (२|१२) । गौमि, (२) शीघ्रं निर्णयं कुर्यादित्यर्थः । अत्ययकर्म यथा सार्धमुक्तस्य सार्धा गच्छति, म्रियमाणावस्थो वाऽन्यतरो भवति, ग्रामोपलवो वा भवतीत्यादि । अत्ययवशात् धेन्वादियुक्तादपि पूर्व विचारणीयमिति पृथकरणम् । चशब्द: स्तेयसाहसदण्डपारुप्याद्युपसंग्रहणार्थ: । मभा. वसिष्ठः उत्तरदापनोपाया: कौटिल्यं सामौ च दण्डश्चेति चतुष्टयम् । मायोपेक्षेन्द्रजालानि सप्तोपायाः प्रकीर्तिताः ॥ उपायैश्रोद्यमानस्तु न दद्यादुत्तरं तु यः । अतिक्रान्ते सप्तरात्रे जिनोऽसौ दातुमर्हति || याज्ञवल्क्यः उत्तरलेख विधिः श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ । (१) श्रुतश्रासावर्थश्च श्रुतार्थः । तस्य यद्यनुरूपभुत्तरं भवति, ततो लेख्यम् । अन्यथा पराजय एवेत्यभिप्रायः । संनिधाविति सद्यो निर्णयार्थम् । एतच्चासयिक कार्य- विपयं द्रष्टव्यम् | विश्व.२।७ (२) श्रुतो भाषार्थी येन प्रत्यार्थिनाऽसौ श्रुतार्थः, तस्योत्तरं पूर्वपक्षादुत्तरत्र भवतीत्युत्तरं लेख्यं लेखनीयम् । (१) स्मृच.४६; प्रका.२९; समु. २३. मूलस्मृतौ नो- पलभ्यते । (२) स्मृच. ४६; सवि. ९९ हारीत:; प्रका. २९; समु. २३ नस्तु (नोऽपि ). मूलस्मृतौ नोपलभ्यते । (३) यास्मृ. २१७; अपु २५३१३६; शुनी ४ ६३६; विश्व.२१७; मिता.; अप ववे (वा); व्यक. २८; स्मृच. ४१; पमा. ६८; स्मृसा.८८; व्यचि. १५; व्याने; स्मृचि. ३९; नृप्र. ६; व्यत. २०६; चन्द्र. ११३; व्यसौ.