पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० व्यवहारकाण्डम् - पूर्वावेदकस्यार्थिनः संनिधौ समीपे । उत्तरं च यत्पुर्वी क्तस्य निराकरणं तदुच्यते । उत्तरमित्येकवचन निर्देशा- दुत्तराणां संकरो निरस्तः । Xमिता (३) परीक्षितपूर्वपक्षस्यैव प्रतिवादिनोत्तरं लेख्यमि त्याह याज्ञवल्क्यः – श्रुतेति । स्मृच.४१ (४) लेख्यमिति वाक्यस्याप्युपलक्षणम् । व्यत. २०६ (५) तदेवं भाषास्वरूपे लिखिते च राज्ञा प्रतिवायु- त्तररूपद्वितीय व्यवहारपादे राज्ञः कृत्यमाह -- श्रुतेति । श्रुतो योग्यतयाऽवधारितोऽर्थः श्रुतार्थः, भाषावाक्यम् । तत्सम्बन्धि उत्तरं प्रत्यर्थिकृत्यं पुर्वावेदकस्याऽर्थिनः संनिधौ राज्ञा लेखनीयम् । श्रुतार्थस्येत्यभिधानाद्भापा- भासे मद्विभक्तोऽप्ययमर्जित धनमर्जकत्वात् मह्यं ददा- त्वित्यादिरूपमुत्तरं विनैव जय इति द्रष्टव्यम् । वीमि. (६) कर्तरि षष्ठी । तेन लेख्यमित्यर्थः । पूर्वावेद- कोऽथीं । पूर्वपक्षादुत्तरत्र उपन्यस्थत इत्युत्तरं पूर्वपक्षो पमर्दकमुच्यते । व्य.५५ (७) सभ्यैः प्रत्यर्थिना श्रुतस्य भाषार्थस्योत्तरं लेख नीयमित्यर्थः । विता.६२ उत्तरे कालानं, सद्यो विवादविषयाः साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ (१) किं पुनः सर्वत्रेव सग्रो व्यवहारनिर्गतिः ? सत्यम् । एवं युक्तम् । तथापि तु - साहसेत्यादि । निर्वहणमनिरूप्यैव स्वबलावष्टम्भेन सहसा प्रसह्य यत् क्रियते, तत् साहसम् । स्तेयं पारुण्यं च वक्ष्यति । गोवधाद्यभिशापो गोऽभिशापः | गोग्रहणमुदाहरणार्थं, सर्वपशूनां शृङ्गिणां वाऽभिशापः । अत्ययः कालप्रतीक्ष णासमर्थ कार्यम् । स्त्रियश्च यत्राभियुज्यन्ते, तत्र काल x अप मितागतम् । । २४; वीमि.; व्यप्र. ५४; व्यउ. ३७; व्यम.७; विता. ६२; राकौ . ३९० पूर्वा (सर्वा); प्रका. २५; समु. १९. (१) यास्मृ. २११२; अपु. २५३।४१-४२ ष्यगो (ध्येष्व याम् (या:) वाद (चार); विश्व २|१२ याम् (यः) स्मृतः (भवेत् ) ; मेधा. ८/५६; मिता; व्यमा. २९८ याम् (या: ) ; अप.; व्यक. २७; मभा. १३१३०; गौमि. १३।३०; स्मृच. ४१; पमा. ७१; स्मृसा.८५ व्यमावत् ; व्यचि. १६; व्यत. २०२; सवि. ९१; चन्द्र. १०६; व्यसौ. २३ न्यत्रेच्छया (ऽन्यत्र बुधैः): ३६; त्रीमि.; ग्यप्र.८१,१०४; विता. ७४; प्रतीक्षणे विरोधात् सद्य एव विवादयेत् । विवादं समा- पयेदित्यर्थः । अन्यत्र त्वृणादानादौ कालप्रतीक्षणमपि कार्यम् । ध्रुवाधिकरणेच्छया वा भवति । यथाह नारद:- 'गहनत्वाद्विवादानां क्षणिकत्वात् स्मृतेरपि । ऋणा- दिषु हरेत्कालं कामं तत्वबुभुत्सया' इति । विश्व.२।१२ (२) साहसादौ हि चिरमुपेक्ष्यमाणे परमपराधनु- यात् । अतः सद्यो विवादो विधीयते । न चात्र स्मृत्या- दयोऽनुत्तरहेतवः संभवन्ति । साहसादिकारणं हि तदा- नीमेव राजानं वेदयेत् । तीव्रसंवेगता हि तत्र भवति । वस्त्रायुपहारेण तदुपेक्षायां नाशाशङ्का भवति । साक्षि- णस्तत्र यदृच्छया संनिहिता अपि भवन्ति । ते हि देशा- न्तरं गता नामजात्यादिभिर्न विज्ञायन्ते । ततः स्वाभा- विकप्रमाणाभावः । किं च ऋणादानादिषु कदाचिदितरेतरं संदधते । न तत्र राज्ञो हस्तप्रक्षेपः । क्रमेण च संशुद्धौ स्मृतिरुप- युज्यते तदा कियद्दत्तमिति | साहसकारी तु राज्ञाऽवश्यं निग्रहीतव्य इतरेण संधीयमानोऽपि । तस्मादृणादिषु कालहरणं, साहसादिषु सद्य इति स्थितम् । मेधा. ८/५६ (३) 'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' इति वदतोत्तरपादलेखने कालप्रतीक्षणं दर्शितम् । तत्रा- पवादमाह साहसेति । साहसं विषशस्त्रादिनिमित्तं प्राणि- व्यापादनादि । स्तेयं चौर्यम् । पारुष्यं वाग्दण्डपारुष्यं वक्ष्यमाणलक्षणम् । गौर्दोग्ध्री । अभिशापः पातकाभि- योगः । अत्ययः प्राणधनातिपातस्तस्मिन् । द्वन्द्वैकवद्भा- वादेकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च । कुल- स्त्रियां चारित्र्यविवादे, दास्यां स्वत्वविवादे । विवाद- येदुत्तरं दापयेत् सद्य एव न कालप्रवीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु । कॉल: उत्तरदानकाल: । इच्छया अर्थिप्रत्यार्थसभ्यसभापतीनाम् । स्मृतः उक्तः | अमिता. (४) सहसा बलेन हठाजनसमक्षं यत्परहिंसा क्रियते तत्साहसम् । पारुष्यं वचसा कायेन वा परस्य दुःखोत्पादनम् । गोशब्द उपजीव्यद्रव्योपलक्षणार्थः । अभिशापः पापाभिशंसनम् । तस्य पारुष्यान्तर्भावेऽपि सेतु. १०२; प्रका. २५; समु. २०; विव्य. ६.

  • विता. मितागतम् ।

१ णेऽप. २ नुक्त.