८६ व्यवहारकाण्डम् धायकत्वात् । तेनायमर्थः, यश्चक्षुराद्यवयवानां प्रकर्षेण नुयात् ॥ इति बृहस्पतिवचनं आततायिवधस्यादो- हरणे प्रवृत्तस्तद्वधेऽपि कामतोऽपि द्वादशवार्षिकमेव प्रायश्चित्तमित्यर्थ इत्याह । तद्युक्तम् । 'आचार्य च' इत्यस्य मानवस्योक्तयुक्तिवलादातताय्याचार्यादिवधे दो प्रतिप्रसवार्थत्वस्योपपादितत्वाप्तदेकमूलतया नस्य मिताक्षरोक्तच्छेदेनैव व्याख्यातुमर्हत्वात् । त्वदुक्त च्छेदे दोषोऽन्यत्रेत्यस्य वैयर्थ्यापत्तेच। गोब्राह्मणादित्यस्य स्नान हेतुत्वे पञ्चमीति व्याख्याने गोशब्दस्यावयविवाचक स्थाऽवयवशृङ्गलक्षणाद्वारा तदुदकलक्षणायां लक्षितलक्ष णापत्तेश्च । गोः स्नानाहेतुत्वात् । ब्राह्मणस्य ज्ञापकहेतु त्वाद्गोश्व कारकहेतुत्वस्य क्लिष्टस्य ग्रहणाद्वैरूप्यादिदोष प्रसङ्गाच्च । यदपि भविष्यपुराणीयवचनव्याख्यानं तत्त्व- त्यन्तबहिर्मुद्रम् । ताडनादिवधपर्यन्ते देहपीडने रूढस्य महरते वक्षुराद्यवयवप्रकर्षहरणे योगग्रहणस्य रथकार- नयविपरीतत्वात् (पूमी. ६।१।१२) । किञ्च, चक्षुराद्य- वयवोद्धरणप्रवृत्तब्राह्मणवधे कामकृतेऽपि द्वादशाब्दमेव ब्राह्मणवधप्रायश्चित्तं न तु कामकृताऽन्यब्रह्मवधवत्प्राय वित्तद्वैगुण्यं मरणान्तिकं वेत्यस्यैतद्वचनादिसंहि प्रायश्चित्तह्रासप्रयोजकदोपाल्पत्वस्याततायित्व मेव निमित्तं, अन्यासंभवात्, शस्त्रपाणित्वेनाततायि त्वस्यैव सत्वाच्च । तथा च नाततायिविषयमिद मिल्यसंबन्धम् । आततायिन्यदोषोऽन्यत्र गोब्राह्मणात् । गोब्राह्मणं यदा हन्यात् तदा प्रायश्चित्तं कुर्यात् । ‘क्षिण्वानमपि गोविप्रं न हन्याद्वै कदाचन' इत्याभ्यां संवर्त भविष्यवचनाभ्यां विरोधस्य सर्वथा दुष्परिहरत्वाच्च । विध्यन्तरशेषभूतस्य विधिशक्तिप्रतिबन्धकापिशब्दादिमतो एतेषां चाततायिताप्रयोजकव्यापारगोचरवर्तमानप्रवृत्ति- गुर्वादिवाक्यप्रतिप्रसवविधित्वस्याभ्युपगन्तुमशक्यत्वाच्च । कानामेव हन्तव्यानामप्याततायिनां हनने दोषाभावो पताप्रमाणत्वेनोपन्यस्य, किल्बिषाभावः प्रायश्चित्तनिषे- धार्थ: अपराधाभावस्तु दण्डनिषेधार्थ इति च व्याख्याय यतः 'सर्वत आत्मानं गोपायेत्' इति श्रुतिमूलकमिदमतः सुमन्तुचच- पलायनादिनाप्यात्मरक्षणाऽसंभवपरमिति तत्तात्पर्यमुप वर्ण्य 'गुरुं वा' इत्यादिमन्वादिवचनान्यपि तदुपष्टम्भक- तया प्रदर्श 'आततायिन्यदोष' इत्यादिसंवर्तवचनं 'क्षिण्वानं' इत्यादि भविष्यवचनं च पूर्वीक्तं तद्विरोधित्वे- नाशक्य व्यवस्था मेवमुक्तवान् | हन्त्रपेक्षया तपोविद्या जातिकुलैरुत्कृष्टो ब्राह्मणगुर्वादिराततायी न वध्यः । समोऽ- पकृष्टश्च वध्यः । तथा च कात्यायनः – 'आततायिनि चोत्कृष्टे तपःस्वाध्याय जन्मतः | वधस्तत्र तु नैव स्यात् पापं हीनवधेतु न ' इति । अत एव गीतायामुक्तम्- 'पापमेवा- श्रयेदस्मान् हत्यैतानाततायिनः' इति । एतान् भीष्मा दीनस्मत्तोऽयन्तोत्कृष्टानाततायिनोऽपि हत्वाऽस्मान् पाप- माश्रयेदेवेत्यर्थः । उत्कृष्टाततायिननान्निवृत्तौ फलम- प्युक्तं बृहस्पतिना- 'आततायिनमुत्कृष्टं वृत्तस्वाध्यायसंयु- तम् । यो न हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत्' इति । तेनोत्कृष्टशततायिवधनिवृत्तौ तद्वधप्रसक्तप्रत्यवाय- परिहारोऽश्वमेधफलं च संयोगपृथक्त्वनयात् (पूमी. ४ | ३(३) । यद्यपि 'गुरुं बहुश्रुतं हन्यात्' इति श्रूयते गुरोश्च शिष्यापेक्षयोत्कृष्टत्वमेवेति तत्र व्यवस्थेयं दुरवस्था । तथापि, गुरोरपि सकाशात् कुलविद्यातपःप्रभृतिभिर्गुणैः शिष्यस्यायुत्कर्षः संभवतीति सुस्थैव तत्रापि व्यवस्थेयम् । गौस्त्वातताय्यप्यविशेषेणावध्यो विरोधिवचनाभावात् । तस्य न तु निवृत्तव्यापारकाणामपि । 'उद्यतानां तु पापानां हन्तुदर्दोषो न विद्यते | निवृत्तानां तथारम्भाद् ग्रदणं न वधः स्मृतः' ॥ इति कात्यायनवचनात् । तदपि न क्षोदक्षमम् । तथा हि 'न हिंस्यात्' इति निषेधावधारितस्य दोषस्य 'शस्त्रं द्विजातिभिः' इत्यादिना आततायिविपयेऽपवादमभिधाय तदर्थवादत्वेन 'गुरुं वा ' इत्याद्युक्त्वा मनुसुमन्तुसंवर्तभविष्यादिवचनैर्गोब्राह्मणादि- विषये तं प्रतिप्रसूय चरितार्थेषु सर्ववचनेषु कात्यायनीयम् 'आततायिनि चोत्कृष्टे' इत्यादिवचोऽपि मन्वादिवचनोपा- न च विशेष भूतानां वसिष्ठादिवचसामर्थवादत्वमसंभ वीति 'गुरुं वा' इत्यादीनामपि नार्थवादत्वं विध्यन्तर- शेषत्वात् तेषामर्थवादत्वेऽपि वास्मदभिप्रेतार्थसिद्धेर्व- चनान्तरैः परतन्त्रैरूरीकृतत्वान्न क्षतिरिति वाच्यम् यतस्तेषामपि गोब्राह्मणाद्याततायिवधदोषप्रतिपादकबहु तरवचनान्तरविरोधाहोपाल्पत्वप्रतिपादकतैव तदेकमूल कतालाभायोचिता । अन्यथा दुष्परिहरत्वाद्विरोधस्येत्यस्तु विस्तरः । शूलपाणिस्तु – 'नाततायिवधे हन्ता किल्बिषं प्राप्नुयात् ऋचित् । विनाशार्थिनमायान्तं घातयन्नापरा-
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१६४
दिखावट