४४ व्यवहारकाण्डम् स्मृतितन्त्रसांकेतिकशब्दगूढार्थदुःखचोधानि मुनिवचनानि बाहुल्येन भवन्ति । तेषु सूक्तप्रतिषिद्धपुनःसंभावित सापेक्षनिरपेक्षवचनार्थेषु अप्राप्तगुरुपारम्पर्यार्थविचारक्षो दकौशलाः मन्दमतयः न सम्यग्न्यायदण्डप्रमाणनिर्णय विदः सभासदः सभायोग्या न भवन्तीत्येतदर्थ सविशेष- मिदमभिद्दितं धर्मशास्त्रार्थकुशला इति । कुलीनाः कुल- माहात्म्यात्पक्षपातविकृतिं न भजन्ते । सत्यवादिनः स्वभा- वादेवाऽनृतादुद्विजन्ते । समाः शत्रौ च मित्रे च, तस्मि- न्काले परित्यक्तद्वेपस्नेहभावा एवंविधा नृपतेः सभासद : स्युरिति । अभा. २९ (२) मन्वादिधर्मशास्त्राणामर्थे कुशला इति प्राञ्चः । नव्यास्तु अत्र धर्मशास्त्रं मुनिप्रणीतधर्मप्रयोजकशास्त्र मात्रम् | तेन मीमांसादेरपि संग्रह इति । मन्मते उभयो रविरोधः । प्रथमे आदिपदोपादानात् । परन्तु धर्मशास्त्रं मन्वादिप्रणीतं, अर्थशास्त्रं राजनीत्यादि । 'यत्र विप्रति पत्तिः स्याद्धर्मशास्त्रार्थशास्त्रयोः' इति नारदवचनादर्थ शास्त्रस्यापि निर्णायकत्वावगमात् इति लक्ष्मीधरेणात्रैव व्याख्यातमिति युक्तम् । रार.२२ (३) धर्मशास्त्रार्थकुशलाः विवेकज्ञा इत्यर्थः | कुलीनाः सर्व एव कुलजाः।तत्र कुलग्रहणात् प्रख्यातकुलजाता इति गम्यते । सभासद: नियुक्ताः, अन्येपामपि सभाया- मासनाविरोधात् । नाभा. १।६९ व्यवहारनिर्णये कति सभ्या नियोज्याः व्य॑वहारेषु सर्वेषु नियोक्तव्या बहुश्रुताः । गुणवत्यपि नैकस्मिन् विश्वसेद्धि विचक्षणः || दश वा वेदशास्त्रज्ञास्त्रयो वा वेदपारगाः । यब्रूयुः कार्यमुत्पन्नं स धर्मो धर्मसाधनम् ॥ धर्माणां संशयच्छेत्ता राजा च सुधराधिपः । तस्मान्न वाच्यमेकेन वचनं तु ससंशयम् || नोनियुक्तेन वक्तव्यं व्यवहारे कथञ्चन । १४ उत्त.; नृप्र.४ धर्म...ला (श्रुताध्ययनसंपन्नाः); व्यप्र.२७ स्त्रार्थ (स्त्रपु ); व्यउ. १७ व्यप्रवत् ; प्रका. ७; समु. ६. (१) vulg.व्यवहारेष्वित्यादिश्लोकत्रयं 'अनियुक्तो नियुक्तो वा' (नारमृ. ३।२) इति श्लोकानन्तरं समुपलभ्यते । (२) नासं. १९६६; नास्मृ. ३ | १; अभा. २८; व्यमा २८२ नियुक्तेन तु वक्तव्यमपक्षपतितं वचः ॥ (१) इदानीं व्यवहारविधिरुच्यते । अत्र राजसभा- व्यवहारकाले लोकाचारजन्यपक्षपक्षाश्रयस्थिता बहवो लोका वादिप्रतिवादिभ्यां सह धर्माधिकरणमागच्छन्ति । तत्र केचित् ज्ञानिनः, केचिदज्ञानिनः केचित् ज्ञानाs- भिमानिनः, यदि साकोटनं निषिद्धा न भवन्ति, ततस्ते सभ्यानेवाऽनेकप्रमादवाक्यैर्विक्षोभ्य द्रावयन्ति । परस्परं च वादकलहकारिणो भवन्ति । ततोऽर्थनिगदमुच्यते । ये सभ्याः सभायां व्यवहारदर्शननियुक्ताः, तानेव केवलान् मुक्त्वा यः कश्चिदनियुक्तस्तटस्थितः कोऽपि किमपि वदति, स राज्ञा विनयं ग्राह्यः, 'नानियुक्तेन वक्तव्यम्' इत्यागमबलात् इति श्लोक पूर्वार्धनाऽनियुक्त वक्तव्याको टनाऽभिहिता । उत्तरार्धेन नियुक्तानामपि दर्शिता यथा- 'नियुक्तेनैव वक्तव्यमपक्षपतितं वचः' । नियुक्तेन तु सभ्येन धर्मासनस्थेन केवलं धर्ममूर्तिमेवावस्थापयता किमपि धर्मशास्त्रोक्तव्यवहारनिर्णयवचनं तदेव वक्त- व्यम् । न पुनर्वादिनोरेकतमस्यापि पक्षपाताश्रितं वक्त व्यमिति । अभा. २८ (२) तद्यदृच्छया कार्यान्तरवशाद्वा आगताऽनियुक्त विषयम् । अन्यथा पूर्वोक्तवचनविरोधात् । ब्राह्मणानां सहायत्व निर्वाहाय कार्यान्तराक्षेपापत्तेश्र । स्मृच.१४ (३) अपक्षपतितं वचः सत्यमित्यर्थः । अन्यथा- वचनेऽवचने च दोपः प्रत्यवायः । नाभा. १।६६ (४) तत्तु अनङ्गीकृतसभाप्रवेशो यदृच्छया कार्या न्तरवशाद्रा य आगतस्तादृशाऽनियुक्त विषयं बोध्यम् अन्यथा मन्त्रादिवचनविरोधात् । व्यप्र. २८ नियुक्तेनानियुक्तेनापि वा सभ्येन शास्त्रोक्त वक्तव्यम् अंनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुमर्हति । दैवीं स वाचं वदति यः शास्त्रमनुजीवति ।। नु (च) पक्ष (रक्षा); अप २।४; व्यक. १४; स्मृच. १४; व्यचि. ५; व्यनि. कंथ (षु किं); स्मृचि, ४; नृप्र.४ प्रथमपादः; व्यप्र. २८ व्यनिवत्; व्यउ. १७ व्यनिवत्; प्रका. ७; समु. ६. (मुप); मेधा.८।१३ (नियुक्तो वाऽनियुक्तो वा धर्मशो वक्तुमर्हति) (१) नास्मृ. ३१२; अभा. २८ स वाचं (वाचं स ) मनु पृ.; मिता. २१२ मेधावत्, पू.; अप. २१४ अनियुक्तो नियुक्तो (नियुक्तो वाऽनियुक्तो) शेषं अभावत्; व्यक. १४ अपवत्; व्यचि.
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१२२
दिखावट