३८ व्यवहारकाण्डम् वाल्मीकि रामायणम् सत्सभालक्षणम् ने सा सभा यत्र न सन्ति वृद्धाः । न ते ये न वदन्ति धर्मम् ॥ वृद्धा नासौ धर्मो यत्र न सत्यमस्ति । न तत्सत्यं यच्छलेनानुविद्धम् ॥ ये तु सभ्याः सदा ज्ञात्वा तूष्णीं ध्यायन्त आसते। यथाप्राप्तं न ब्रुवते ते सर्वेऽनृतवादिनः ॥ याज्ञवल्क्यः ` प्राविवाकः । ब्राह्मणाःसहकारिणः । धर्मशास्त्र नुसारी व्यवहारनिर्णयः कर्तव्यः । राज्ञा कीदृशाः कति च सभ्या नियोज्याः ।
- व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः । राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ (१) यतश्च धर्मशास्त्रप्राधान्यं व्यवहारदृष्टौ, अतः श्रुताध्ययनेति । निगदोक्तः श्लोकः । विश्व. (२) किञ्च श्रुताध्ययन संपन्नाः श्रुतेन मीमांसाव्याक रणादिश्रवणेन अध्ययनेन च वेदाध्ययनेन संपन्नाः । धर्मज्ञाः धर्मशास्त्रज्ञाः | सत्यवादिनः सत्यवचनशीलाः । रिपौ मित्रे च ये समाः रागद्वेपादिरहिताः । एवंभूताः सभासदः सभायां संसदि यथा सीदन्ति उपविशन्ति तथा दानमानसत्कारे राज्ञा कर्तव्याः । यद्यपि श्रुताध्य यनसंपन्ना इत्यविशेषेणोक्तं तथापि ब्राह्मणा एव । यथाह कात्यायनः –‘स तु सभ्यैः स्थिरैर्युक्तः प्राजेमले र्द्विजोत्तमैः । धर्मशास्त्रार्थकुशलैरर्थशास्त्रविशारदैः' इति ।। ते च त्रयः कर्तव्याः बहुवचनस्यार्थवत्वात् - 'यस्मिन्देश निषीदन्ति विप्रा वेदविदस्त्रयः' इति मनुस्मरणाच्च (८।११) । बृहस्पतिस्तु सप्त पञ्च त्रयो वा सभासदो
- व्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौं द्रष्टव्यः ।
(६) वारा. ७७५९ ( प्रक्षिप्तेषु ३१३४-३५). (२) यास्मृ. २१२; विश्व २१२ धर्मशा: (कुलीना :) : मिता; अप.; स्मृच. १५; पमा. २६; व्यनि. विश्ववत् ; व्यत. १९९ धर्मशाः (कुलीना:) रिपौ (शत्रौ); वीमि.; व्यप्र. २६; व्यउ. १६; ग्यम. २; विता. ३; सेतु. ९५ व्यतवत् ; प्रका. ७; समु. ६. ! भवन्तीत्याह – 'लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा । यत्रोपविष्टा विप्राः स्युः सा यशसदृशी सभा' इति ॥ न च ब्राह्मणैः सहेति पूर्व श्लोकोक्तानां ब्राह्मणानां श्रुताध्य- यनसंपन्नाः इत्यादि विशेषणमिति मन्तव्यम् | तृतीया- प्रथमान्तनिर्दिष्टानां विशेषणविशेष्यभावाऽसंभवात् । विद्व- द्भिरित्यनेन पुनरुक्तिप्रसङ्गाच्च । तथा च कात्यायन ब्राह्मणानां सभासदां च स्पष्टं भेदो दर्शितः –‘सप्राडू- विवाक: सामात्यः सब्राह्मणपुरोहितः | ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः' इति ॥ तत्र ब्राह्मणा अनि- युक्ता: सभासदस्तु नियुक्ता इति भेदः । अत एवो. क्तम् – 'नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वक्तुमर्हति' इति । तत्र नियुक्तानां यथावस्थितार्थकथनेऽपि यदि राजाऽन्यथा करोति तदासौ निवारणीयोऽन्यथा दोपः । उक्तं च कात्यायनेन ––'अन्यायेनापि तं यान्तं येऽनु- यान्ति सभासदः । तेऽपि तद्भागिनस्तस्माब्दोधनीयः स तैर्नृपः' इति ॥ अनियुक्तानां पुनरन्यथाभिधानेऽनभिधाने वा दोषो न तु राज्ञोऽनिवारणे –– 'सभा वा न प्रवे- ष्टव्या वक्तव्यं वा समञ्जसम् | अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिपी' || इति मनुस्मरणात् (८।१३) । रिपौ मित्रे चेति चकारात् लोकरञ्जनार्थ कतिपयैर्वणिग्भि- रम्यधिष्ठितं सद: कर्तव्यम् | यथाह कात्यायनः-- 'कुलशीलवयोवृत्तवित्तवद्भिर मत्सरैः । वणिग्भिः स्यात्क्रति- पयैः कुलभूतैरधिष्ठितम्' इति । x मिता. (३) ततश्च यद्गुणकारते कार्यास्तानाह श्रुताध्यय नेति । श्रुतं वेदवाक्यार्थज्ञानोपयोगि मीमांसाया वेदा ङ्गानां च कल्पनिरुक्तव्याकरणानामाचार्यादर्थज्ञानम् । धर्मशास्त्राण्याह पितामहः-- 'वेदाः साङ्गास्तु चत्वारो मीमांसा स्मृतयस्तथा । एतानि धर्मशास्त्राणि पुराणं न्याय दर्शनम्' || मित्रामित्रयो रागद्वेषाभावेन समोपदेशकर्तारो राजा सभासदः कार्या मानदानाभ्यामापाद्याः । सभायां सीदन्तीति सभासदः । एते बहुशास्त्रज्ञा ब्राह्मणास्तदलाभे तादृशाः क्षत्रियास्तदलाभे तादृशा एव वैश्याः । + अप. Xव्यवहारनिर्णये 'सभ्यासभ्यब्राह्मणभेदो' मितावत् । वीर- मित्रोदये (यास्मृ॰टीका) तु पूर्वश्लोकोक्तब्राह्मणविशेषणपरः श्लोकोऽ- यमिति प्रथमं समर्थयित्वा, वस्तुतस्तु इत्य (दिना मिताक्षरावत् नियुक्तसभ्यपरत्वं समर्थितम् । विता. मितावत् । + शेषं मितावत ।