सभा तत्र दुर्बलस्य बलीयसा धनहरणादिना वाध्यमानेस्य' दृष्टा पीडा | इतरस्य तु विध्यतिक्रमजनितेन प्रत्यवाये नामुत्रिकदुःखोत्पादनमदृष्टपीडा । प्रजा हि द्वेषमत्सरादि- भिरितरेतर मयथावदाचरन्ति, कुपथेन यान्त्यदृष्टदोषेण वाध्येरन् । अतश्च राज्यनाशः । प्रजैश्वर्य हि राज्यमुच्यते । तासु विनश्यन्तीषु कस्य राज्यं स्यात् । व्यवहारादयोऽतः । शास्त्रदण्डेन व्यवस्थाप्यमाना न भयात्पृथक् प्रचलन्ति तथा चोभयथाऽपि रक्षिता भवन्ति । धन- दण्डश्च राज्ञः कैरः शुल्कादि वा । एतदन्या ( अन्यथा ) धर्मिष्ठजीविका न भवतीति वृत्तिपरिक्षयादपि राज्याव- सादः । अतो राज्यस्थित्यर्थं व्यवहारदर्शनं कर्तव्यम् । तदिदानीमुच्यते । व्यवहारश्चात्र वादिप्रतिवादिनोरितरेतराशनोद्धाराय वृत्तिरुच्यते । अथवा ऋणादानादयः पदार्था एव विप्र तिपत्तिविषयाः सन्तो विचारगोचरसमर्थतया कर्तव्या इति । दिक्षुरित्युक्त्वा 'पश्येत्कार्याणीति' सामानाधि करण्यम् । पुनश्च प्रत्यवमर्श: 'तेपामाद्यमृणादानमिति' (मस्मृ.८।४) तान् पदार्थान्विचारयेदिति संबन्धः । वक्ष्य माणाधिकृतपुरुषाधिष्ठितः प्रदेश सभा | प्रवेशस्तदभ्य न्तरभावः । किमेक एवं प्रविशेर्ते, न इत्याह, ब्राह्मणैः सद्देति । अथ मन्त्रज्ञैरिति कस्य विशेषणं, न तावन्म- न्त्रिणो, मन्त्रित्वादेव सिद्धेः । न हि मन्त्रमजानानो मन्त्रीति शक्यते वक्तुम् । नापि ब्राह्मणानां, व्यवहारदर्शनेऽधि- कृतानां तत्परिज्ञानमदृष्टाय स्यात् । अत्रोच्यते । ब्राह्मण- विशेषणमेवैतत् । ते हि मन्त्रज्ञा भूत्वा निरपेक्षमवधार यन्तः स्युः । अन्यथा राज्ञोऽनर्थमावहेयुः । तथा हि महा मात्याश्रितः कश्चिजनपदेन व्यवहरन् सहसा जितो यदि न दण्डयते, धनं वाऽवष्टभ्य न दाप्यते, तदा समत्वेन व्यवहारदर्शनं न कृतं स्यात्, पक्षपातमशक्ति वाऽस्य जन पदा मन्येरन् । अथ दण्डयते, महामात्यक्षोभादपि प्रकृतिविकृतं स्यात् । मन्त्रज्ञास्तु सन्तः संशयितारो यदि निर्णतव्यस्य केनचिदपदेशेन प्रसङ्गरोधं कृत्वा रहसि राजानं परिबोधयन्ति ' अनयर्विवादिनोरयं जीयतेऽयं जयतीति, व्यवहारस्त्वस्माभिर्न तदानीमेव निर्णत इति १ ना. २ करशुल्कादिवैतदन्यध. ३ धारा ४ शेत्र इ. ५ ष्टं न. ६ झ. २९ स्वामी प्रमाणं ' तत्र राजा एवं विदित्वा महामात्यमा- देशयति, 'त्वदीयो मनुष्यो जीयते मम हनिर्मा भूदिति संप्रति निर्णयोऽवधीरितः । त्वमेव तथा कुरु, यथैष मनुष्यः संधीयते, बाधाऽस्य व्यपनीयते' । ते मन्त्रिगो वा आदेयवाक्या मनुष्याणां सर्वेषां अनर्थ्या च प्रवृत्तिं प्रतिबध्नन्ति । अन्ये तु काकाक्षिवदुभयविशेषणमर्थभेदेन मन्त्रज्ञपदं मन्यन्ते । यदा मन्त्रिणो विशेष्यन्ते तदा तत्तद्धेतुतत्परिज्ञानं मन्त्रज्ञानम् । ब्राह्मणपक्षे तु कार्यार्थज्ञानं समभावश्च । मन्त्रिब्राह्मणानां न प्रवेशमात्रमेव, किन्तर्हि, निर्णयः 'पश्येत्' इत्युत्तर वाक्यात् यथायोग्यं, इतरथा अदृष्टाय प्रवेश: स्यात् । अतो नैकाकी निर्णयं कुर्यात् । किन्तर्हि, तैः सह निरूप्येति । विनीतो वाक्पाणिपादचापलरहितः । वेपतो ह्यनर्थ: स्यात् । पार्थिवग्रहणात् न क्षत्रियस्यैवाय- मुपदेशः, किन्तर्हि, अन्यस्यापि पृथिव्यामधिपतेर्देशेश्वरस्य, न हि अन्यथा राज्यमविचलितं भवतीति । मेधा. (२) अर्थिप्रत्यर्थिनो: ऋणादानादिविषयाणि इतरेतर विरुद्धावहरणरूपाणि कार्याणि, द्रष्टुमिच्छन् राजा वक्ष्य- माणलक्षणैर्मन्त्रिभिश्वोक्तपञ्चाङ्गमन्त्रज्ञैः ब्राह्मणैश्च सह चापलादिरहितो वक्ष्यमाणसभां प्रविशेत् । गोरा. (३) मन्त्रज्ञा अर्थशास्त्रज्ञाः । तेन धर्मशास्त्राविरुद्ध मर्थशास्त्रं व्यवहारं पश्यता अनुसरणीयम् । अप. २।१ (४) मन्त्रज्ञैरिति विशेषणोपादानं कार्यदर्शनोपयो- गिमन्त्रालोचकत्वेन तेपामरत्यत्रोपयोग इति प्रतिपादयि- तुम् । तथा ब्राह्मणेऽपि बहुवमुक्तं तेनैव -- 'व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः' इति पूर्वार्धन । ब्राह्मणैः विद्वद्भिरिति शेषः । चशब्दोऽत्र प्राड्विवाकपुरोहितसभ्यवणिग्गणक- लेखकसाध्यपालहिरण्यधर्मशास्त्रैरपि सह इति ज्ञापनार्थः । तेपामपि ब्राह्मणादिवत् दर्शनोपयोगित्वात् । तत्र केपाश्चि दुपयोगो निर्णेतॄनिर्णये दर्शितः । *स्मृच. १४, १९ (५) एवंविधविपक्षमहीक्षिद्भ्यः प्रजानां रक्षणादवा- तवृत्तिः तासामेवेतरेतरविवादजपीडापरिहारार्थ, ऋणा-
- सरस्वतीविलासे चशब्द: स्मृतिचन्द्रिका वन्निरूपितः ।
१ तत्तद्धा तु तत्परिज्ञानम. २ (०). ३ रत्र वाक्यानि ४ नथा.