पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् २८ राधे द्विगुणं, स्थानाद् व्यवरोपणं च । लेखकश्चेदुक्तं न लिखति अनुक्तं लिखति, दुरुक्तमुपलिखति, सूक्तमुल्लिखति, अर्थोत्पत्तिं वा विकल्पयतीति, पूर्वमस्मै साहसदण्डं कुर्यात् यथापराधं वा । धर्मस्थः प्रदेष्टा वा हैरण्यमदण्डयं क्षिपति, क्षेप- धर्मस्थ इति । धर्मस्थ:, प्रदेष्टा वा, अदण्डयं, हैरण्यं द्विगुणमस्मै दण्डं कुर्यात् । हीनातिरिक्ताष्टगुणं वा । क्षिपति हिरण्यं दण्डयति चेत्, अस्मै दण्डयित्रे, क्षेपद्वि- शारीरदण्डं क्षिपति, शारीरमेव दण्डं भजेत । गुणं क्षिप्तदण्डद्विगुणं, दण्डं कुर्यात् । हीनातिरिक्ताष्टगुणं निष्कयद्विगुणं वा । यं वा भूतमर्थ नाशयत्य | वेति । न्याय्यदण्डाद्धीनदण्डकरणे न्याय्यदण्डाति- भूतमर्थ करोति तदष्टगुणं दण्डं दद्यात् । धर्मस्थशोधनमाह - धर्मस्थवेदित्यादि । तर्जयति शिर:- कंम्पनतर्जनी निर्देशादिना भीपयति । भर्त्सयति वचनेन भीषयति । अपसारयति अपसरन्तं प्रयोजयति । अभि ग्रसते भक्षयति उपजीवतीत्यर्थः । पूर्व साहसदण्डं प्रथम साहसम् । वाक्पारुष्ये द्विगुणमिति | विचदमानं प्रति परुषवाक्प्रयोगे उक्तद्विगुणं दण्डं कुर्यात् । रिक्तदण्डकरणे च हीनदण्डादधिकदण्डाच्च अष्टगुणं दण्डं कुर्यात् । शारीरदण्डं क्षिपति हस्तच्छेदादिरूपं दण्डं अदण्डये यदि प्रयुङ्क्ते, शारीरमेव दण्डं हस्तच्छेदादि- रूपं तमेव, भजेत । निष्क्रयद्विगुणं वा तत्तच्छारीरदण्ड- स्थानीयधनदण्डद्विगुणं वा दण्डं भजेत । न्याय्यार्थ नाशने अन्याय्यार्थसाधने च नाशितसाधितार्थाष्ट्रगुणं दण्डं दद्यादित्याह यं वा भूतमर्थमित्यादि । श्रीम. भूयो धर्मस्थापराधानुल्लिखति पृच्छ्यमिति । पृच्छा साक्षिणं, इह दण्डादित्वाद् यत् । न पृच्छति । प्रच्छ न्नमित्यपि पाठः । अपृच्छ्यं पृच्छान विवादिवन्ध्वादिकं, पृच्छति । पृष्ट्वा वा विसृजति अदत्तोत्तरमेवोपेक्षते । शिक्षयति वक्तव्यमव्यापयति । स्मारयति वक्तव्यं

विस्मृतमभिशापयति पूर्वे ददाति वा वाक्यस्य वक्त- व्यस्य पूर्वाशं शेषपूरणानुगुणं सूचयति वा । इति एवं चेष्टमानायेति शेषः, अस्मै धर्मस्थाय, मध्यमं साहस दण्डं कुर्यात् । देयं देशं न पृच्छतीति । विभाव्यवस्तु विभावनायावश्यापेक्ष्यं साक्षिणं न पृच्छति । अदेयं देशं तद्विपरीतं साक्षिणं, न पृच्छति । कार्य, अदेशेन अतिवाहयति साक्षिणं विनैव निर्णयति । छलेन अति हरति सत्यवादिनमपि साक्षिगं छलवाक्येन अपराध यति । कालहरणेन श्रान्तं कृत्वेति शेषः, अपवाहयति परावर्तयति । मार्गापन्नं वाक्यं अपरित्यक्तक्रमं साक्षिवा क्यम्, उत्क्रमयति त्यक्तक्रममिति आचट्टे । मतिसाहाय्यं साक्षिभ्यो ददाति । तारितानुशिष्टं विचारितनिर्णीतं, कार्ये, पुनरपि गृण्हाति विचारणार्थम् । अस्मै एवं चेष्ट- मानाय धर्मस्थाय, उत्तमं साहसदण्डं कुर्यात् । पुनरप- राधे कृते, द्विगुणं अर्थाद् दण्डनम् । स्थानाद् व्यव- ! रोपणं च निरसनं च । लेखकशोधनमाह–लेखक श्वेदित्यादि । दुरुक्तमुप- लिखति उक्तमसाधु साधूकृत्य लिखति । सूक्तं उलि- खति सुश्रुक्तमसाधूकृत्य लिखति । अर्थात्पत्ति वा विकल्प- यति साध्यसिद्धिं वान्यथयति । शेषं सुगमम् । . मनुः प्राइविवाकः सर्ववणीयो राजा भवति। तत्सहकारिणो मन्त्रिणः ब्राह्मणाश्च भवन्ति । राज्ञा सविनयेन सभाप्रवेश: कर्तव्यः व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥ (१) प्रजानां पालनं गज़ो वृत्तिर्विहिता, सा चात्र 'शस्त्रा स्त्रभृत्वं क्षत्रस्य वकिपीर्विशः। आजीवनार्थ शूद्रस्य द्विजातीनां निषेवणम्' || (मस्मृ. १०।७९ ) ' एवं नृपो वर्तमानो लोकाना नोयनुत्तमान्' इति । तथा धर्मा वर्धते लोके । अन्येप्रामपि वर्णानां क्षत्रियवृत्या जीविना- मस्त्येव राज्याधिकारः । 'यः कश्रित्सर्वलोकानां पालकश्च नृपः स्मृतः । कर्मनिष्ठा च विहिता लोकसाधारणे हिते' || परिपालनं च पीडापहारः । द्वयी च पीडा दृष्टाऽदृष्टश च । (१) मस्मृ. ८/१; शुनी. ४५४४; अप. २११; व्यक. ३ चैत्र (साधं); मभा. ११ १२३ रान् ( रं) पृ. : ११।२७ उत्त.; स्मृच. १४, १९; पमा २३; व्यनि.; स्मृचि. २; दवि. ७ पृ.; नृप्र.१-२ व्यकवत्; सवि. ६४ ब्राह्मणैः सह पार्थिव : (नृपतिब्राह्मणैः सह); व्यसौ.१; ब्यप्र.९; व्यउ.५-६; विता. २; व्यम. २; राकौ. ३८२; बाल. २१ व्यकवत् ; प्रका. ६; समु. ९.