३० व्यवहारकाण्डम् दानाद्यष्टादशविवादे विरुद्धार्थाथिप्रत्यर्थिवाक्यजनित संदेहहारी विचार एव व्यवहारः । तदाह कात्यायन:- 'वि नानार्थंडव संदेहे हरणं हार उच्यते । नानासंदेहहरणा द्व्यवहार इति स्मृतः ' ॥ तान् व्यवहारान् द्रष्टुमिच्छन् पृथि- वीपतिः वक्ष्यमाणलक्षणलक्षितर्ब्राह्मणैरमात्यैश्च सप्तमा ध्यायोक्तपञ्चाङ्गमन्त्रज्ञैः सह, विनीतो वाक्पाणिपादचापल- विरहानुद्धतः । अविनीते हि नृपे वादिप्रतिवादिनां प्रतिभाक्षयादसम्यगभिधाने तत्त्वनिर्णयो न स्यात् । तादृशो वक्ष्यमाणां सभां प्रविशेत् । व्यवहारदर्शनं चेदं प्रजानां इतरेतरपीडायां तत्त्वनिर्णयेन रक्षणार्थं वक्ष्यमा दृष्टादृष्टार्थककरणफलेनैव फलवत् । ममु. (६) मन्त्रज्ञैः पूर्वाध्यायोक्तपञ्चाङ्गमन्त्रज्ञैः, नीति शास्त्रज्ञैः कापटिकादिभिः प्रतिज्ञाहेतूदाहरणोपनयनिगम नज्ञैर्वा, मन्त्रिभिश्चामात्यैः ।
- मच.
(७) पार्थिवोऽभिषिक्तक्षत्रियः । तमेवाधिकृत्य प्रजा पालनव्यवहारदर्शनादिविधानात् । 'यथावृत्तो भवेन्नृपः इत्यादिपु नृपग्रहणात्तु अन्यस्यापि तत्स्थानापन्नस्य प्रजा- पालनौपथिक धर्मजातं भवतीति गम्यते । व्यप्र. ९ (८) अत्र ब्राह्मणाः सभ्या असभ्याच, याज्ञवल्क्येन ‘व्यवहारान्नृपः पश्येत् सभ्यैः परिवृतोऽहम्' (यास्मृ. १। ३६०) इत्युक्तवा, 'व्यवहारान्नृपः पश्येत् विद्वद्भिः ( यास्मृ. २११) इत्यादिना पृथक् ब्राह्मणोके: । व्यवहारद- दीनस्य फलं दुष्टादुष्टपरिज्ञानद्वारा प्रजापरिपालनम् । याज्ञ वल्कन (कात्यायन:) तु – 'सप्राङ्क्षिवाक: सामात्यः सब्राह्मणपुरोहितः | ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥ इति स्वर्गाऽपि फलमुक्तः । 'विप्रो धर्मद्रुमस्यादिः' इत्यादिभिः बृहस्पतिना अनुपङ्गीणि फलान्तराण्यप्यु तानि । व्यउ.६ (९) व्यवहारान् अर्थिप्रत्यर्थिनोर्विवादविषयोक्तीः । पार्थिवः पृथिवीपतिः, क्षत्रियादन्योऽपि । मन्त्रज्ञैः देशका- लाचित कार्याकार्यनिरूपणाभिज्ञैः एतच्च ब्राह्मणैरित्यस्य विशेषणम् । +वाल. २।१ (१०) कीदृशैर्ब्राह्मणैः, मन्त्रज्ञैः वेदव्याकरणधर्म- शास्त्राभिज्ञः। भाच.
- शेषं ममुगतम् ।
+शेषं मेधागतम् । कार्यदर्शनकाले आसनपाणिव्यापारादिनियम: तंत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् । विनीतवेपाभरणः पश्येत्कार्याणि कार्यिणाम् ||
- प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ।
अष्टादशसु मार्गेषु निबद्धानि पृथक्पृथक् || (१) आसीनो धर्मासनोपविष्ट: । स्थितो निषिद्धगति रनुपविष्ट एव । स्थानासनयोश्च व्यवस्थितो विकल्प: कार्यविशेषापेक्षः । गरीयसि कार्ये बहुवक्तव्य उपविष्ट आसीन:, लघीयसि स्वल्पवक्तव्ये स्थितः । क्रममाणस्य सर्वथा प्रतिषेधः । स हि मार्गावलोकनपरो नार्थिप्रत्य- र्थिनोर्निपुणतो वचनमधारयेत् । अन्ये त्वदृष्टार्थी तथा मन्यन्ते । तपस्विवद्ब्राह्मणादिषु विवादिपु स्थितेषु स्थितः, आसीनेषु आसीनः । पाणिमुद्यम्येति । उत्तरी- यादुद्धृत्य उत्थानं कृत्वेत्यर्थः । सूत्रकृतोऽयं व्यतिक्रमः ( ? ) सर्वदा विहितत्वाद्वसनोपव्यानमेतत् । तेनायमर्थ:- हस्त उत्क्षेप्तव्यो न पुनः समीपवर्तिनि संलग्नः कर्तव्यः । प्रश्ननिषेधावसरे च तेनाभिनेतव्यं न तु प्रव्यागादिना | अनेन व्यवहारदर्शनेन तात्पर्य ख्यापितं भवति । प्रायेण हि पुरुषाः कार्येषु प्रयत्नवन्तो हस्तमुद्यच्छन्ति । यथा- सुखोपविष्टं वज्रति कर्तारं ततश्च परिजने तदेतद्राजा' चिंत्तं न ददाति सभ्यैर्निर्भत्रैर्वयं जिता इति (?) पाणि ग्रहणं वाहूपलक्षणार्थम् | केवलस्य हि हस्तस्य यावय- वहारदर्शनं व्यापारणं पीडाकरम् । न चायमदृष्टार्थ उप देशः । विनीतवेपाभरण इति । पूर्व श्लोके वाह्याभ्यन्तरेन्द्रिय- विषयावधानार्थोऽभिहितः । स्वैगणानां शालीनतया सुखोपसर्पणार्थम् | उद्धेतवे हि राजनि प्रतिलक्ष्य तथा विधानामप्रतिपत्तिः स्यात् । अत उद्धतवेपाभरणं न कथंचित् केशवसनविन्यासादिविशेषः । आभरणं कर्णि
- व्याख्यासङ्ग्रहः स्थलादिनिर्देशश्च दर्शनविधी द्रष्टव्यः ।
(१) मस्मृ. ८२; अप. २११; व्यक. ३; स्मृच. २३; पमा. २३; व्यनि.; स्मृचि.२ कार्य (कर्मि); नृप्र.२; व्यसौ. १; व्यप्र. ९; व्यउ. ६; व्यम. २ उत्त. ; विता. २ स्मृचिवत् ; राकौ. ३८२; बाल. २११ पाणि (पाव); प्रका. ६; समु. ९. १ त्तरपाणिमु. २ पुरुष ३ वित्तं ४ श्वग. ५ उद्धृतवेषे हि रजोनिवृत्तिलक्षणया.