●अष्टादशोऽध्यायः 273 एवमियता षण्णां प्रत्येकं त्रिस्वरूपत्वं धृत्यादीनां च प्रतिपादितम् । 'तन्मध्यात् सात्त्विके राशौ वर्तमानो दैवीं संपदं प्राप्त इह ज्ञाने योग्यः, त्वं च तथाविधः' इत्यर्जुनः प्रोत्साहितः । अधुना तु इदमुच्यते- यदि तावदनया ज्ञानबुद्धया कर्मणि भवान् प्रवर्तते तदा स्वधर्मप्रवृत्त्या विज्ञानपूततया च न कर्मसंबन्धस्तव । अथैतन्नानुमन्यसे, तदवश्यं तव प्रवृत्त्या तावत् भाव्यम्; जातेरेव तथाभावे स्थितत्वात् । यतः सर्वः स्वभावनियतः कुतश्चिद्दोषात् तिरोहिततत्स्वभाव: कंचित्कालं भूत्वापि, तत्तिरोधायकविगमे स्वभावं व्यक्त्यापन्नं लभत एव । तथाहि एवंविधो वर्णनां स्वभावः । एवमवश्यंभाविन्यां प्रवृत्तौ ततः फलविभागिता भवेत् । तदाह - ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ॥ शमो दमस्तथा शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म स्वभावजम् ॥ ४२ ॥ शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥ कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । पर्युत्थानात्मकं कर्म शूद्रस्थापि स्वभावजम् ॥ ४४ ॥ 1. S, B, N स्वस्वभावनियतः 2. S, B, N -हिततत्तत्स्वभावः गीता- 18
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३३४
दिखावट