पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

274 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपता स्वे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः । स्वकर्मनिरतः सिद्धि यथा विन्दति तच्छृणु ॥ ४५ ॥ यतः प्रवृत्तिर्भूतानां येन विश्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ॥ ४६ ॥ श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४७ ॥ सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ ४८ ॥ असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धि परमां संन्यासेनाधिगच्छति ॥ ४९ ।। सिद्धि प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेन त कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥ बुद्धचा विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥५१॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ।। ५२ ॥ अहंकारं बलं दर्प कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ।। ५३ ।। ब्रह्मभूतः प्रसन्नात्मा न शोचति न हृष्यति । समः सर्वेषु भूतेषु मद्भक्त लभते पराम् ।। ५४ ।। भक्त्या मामभिजानाति योऽहं यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ।। ५५ ।।