पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

272 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता 'क्षुरस्य धारा विषमा दुरत्यया' इत्यादि । आत्मप्रसादात् बुद्धिप्रसादो जायते, अन्य स्यापेक्ष्यमाणस्या- भावात् । विषयेन्द्रियाणां परस्परसंयोगजं सुखम्, चक्षुष इव रूपसंबन्धात् । निद्रातः आलस्येन प्रमादेन' पूर्वं व्याख्यातेन यत् सुखं तत्तामसम् ।। ३६-३९ ।। न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्विभिर्गुणैः ॥ ४० ॥ न तदस्तीति । एवं कर्तृकर्मकरणानां बुद्धिधृत्योः सुखस्य च सत्त्वादिभेदभिन्नानां परस्पराङ्गाङ्गिभावबाध्यबाधकत्व- समुच्चयात् वृत्तिक्रमयौगपद्यादियोगात्' अपरिसंख्येयभेदत्वात् विविधफलप्रसवसमर्थत्वम् इति । अनेन कर्मणां प्राक् सूत्रितं गहनत्वं वितत्य सहेतुकं निर्णीतम् । सर्वे चैते देवादिस्थावरान्ताः गुणत्रयसंबन्धं नातिक्रामन्ति । उक्तं हि — आ ब्रह्मणश्च कीटान्तं न कश्चित्तत्त्वतः सुखी । करोति विकृतीस्तास्ताः सर्व एव जिजीविषुः ॥ इति तत्त्वतो हि सुखं गुणातिक्रान्तमनसः, नेतरस्येत्याशयः ॥४०॥ 1. S, B–संप्रयोग जम् 2. S, B, N आलस्येन शठतया प्रमावेन 3. N -कारणानाम् 4. S – पद्यादिभेदात् 5. S,N कीटाच 6. S,B,N omit this second half of the verse