अष्टादशोऽध्यायः धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा सात्त्विकी मता ॥३३॥ यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥ यया स्वप्नं भयं शोकं विषादं मदमेव च । 271 न विमुञ्चति दुर्मेधा धृतिः सा तामसी मता ॥ ३५ ॥ धृत्येत्यादि तामसी मतेत्यन्तम् । मनःप्राणेन्द्रियक्रियाः योगेन धारयति; यथा 'किं ममोपभोगादिभिः? सर्वथैवात्मा- रामो भूयासम्' इति मन्वानः । प्रसङ्गेनेति-न तथा अभि- निवेशेन । निद्राकलहादिष्वेव यया सन्तोषं बध्नाति तत्परतया, 1 सा तामसी धृतिः ।। ३३-३५ ।। सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च नियच्छति ॥ ३६॥ यत्तदात्वे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं विद्यादात्मबुद्धिप्रसादजम् ॥ ३७ ॥ विषयेन्द्रियसंयोगाद्यत्तदात्वेऽमृतोपमम् । परिणाम विषमिव तद्राजसमिति स्मृतम् ॥ ३८ ॥ यद चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥ सुखमित्यादि तामसमुदाहृतमित्यन्तम् । तदात्वे, अभ्या- सकाले । विषमिव, जन्मशताभ्यस्तविषयस ङ्गस्य दुष्परिहार- त्वात् । उक्तं च श्रुतौ-
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३३२
दिखावट