चतुर्दशोऽध्यायः रजसि प्रलयं गत्वा कर्मसंगिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥ यदेति । रजसीति । यदा समग्रेणैव जन्मना अनवरत- सात्त्विकव्यापाराभ्यासात् सत्त्वं विवृद्धं भवति, तदा प्राप्तप्रलय- स्य शुभलोकावाप्तिः । एवं जन्माभ्यस्तराजसकर्मण: प्रयाणात् विमिश्रोपभोगाय' मानुष्यावाप्ति । तथा, तेनैव क्रमेण यदा समग्रेण जन्मचा तामसमेव कर्म अभ्यस्यते तदा नरकतिर्यग्व- क्षादिदेहेषु उत्पद्यते । 219 ये व्याचक्षते 'मरणकाले एव सत्त्वादी विवृद्धे एतानि फलानि इति; ते न सम्यक् शारीरेऽनुभवे प्रविष्टाः । यतः सर्वस्यैव सर्वथा अन्त्ये क्षणे मोह एवोपजायते । अस्मद्व्या- ख्यायां च संवादीनि इमानि, श्लोकान्तराणि [च] ।। १४-१५ ।। कर्मणः सुकृतस्याहुः सात्त्रिकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ।। १६ ।। सच्चात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ जायेते तमसोऽज्ञानमेव च ॥ १७ ॥ ऊर्ध्वं गच्छन्ति सच्चस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १८ ॥ 1. B विशिष्टोपभोगाय; S.N (विशिष्टोप) विमिश्रोपभोगाय 2. S,B, N मानुष्याप्तिः 3. S substitutes क्रमेण with प्रकारेण
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२८०
दिखावट