220- श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥ गुणानेतानतीत्य तीनू देही देहसमुद्भवान् । जन्ममृत्युज । दु: खैर्विमुक्तोऽमृतमश्नुते ॥ २० ॥ कर्मण इत्यादि अश्नुते इत्यन्तम् । अत्र केचिदसंबद्धाः श्लोकाः कल्पिताः, पुनरुक्तत्वात् ते त्याज्या एव । एतद्गुणा- तीतवृत्तिस्तु 2 मोक्षायैव कल्पते ।। १६-२० ।। अर्जुन उवाच- कैलिंङ्गैस्त्रीन गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते ॥ २१ ॥ कैरिति । ननु यदि अयं देही, तत् कथं गुणातीतो भव- ति ? सर्वथैव हि कयाचित् चित्तवृत्त्या वर्तते, सा च वैगुण्याद- न्यतमा अवश्यं भवति । अनेत अभिप्रायेण पृच्छति अर्जुनः॥ २१ ॥ अनोत्तरम्- श्रीभगवानुवाच - प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥ 1, 2. B पुनरुक्तार्थत्वात् N गुणातीत श्रुतिस्तु 3. S ननु यदि देही; B ननु कथं देही गुणा-; N ननु वेही कथं गुणा-
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२८१
दिखावट