218 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता सवं सुखे संजयति रजः कर्मणि भारत | ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥ ९ ॥ रजस्तमश्चाभिभूय सत्वं भारत वर्धते । रज सत्वं तमश्चैव तमः सत्वं रजस्तथा ॥ १० ॥ सत्त्वमिति । रज इति। संजयति योजयति । रजस्तमसी अभिभूय सत्त्वं वर्धते; रजस्तु सत्त्वत्तमसी, तमः सत्त्वरजसी । उक्तं हि - 'अन्योन्याभिभवैच गुणवृद्धिः' इति ॥ ९-१० ॥ सर्वद्वारेषु देहेऽस्मिन् प्रकाशमुपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥ लोभः प्रवृत्तिरारम्भः कर्मणामशमश्र तृट् । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥ अप्रकाशोऽप्रवृत्तिश्व प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥ सर्वेत्यादि कुरुनन्दनेत्यन्तम् । सर्वद्वारेषु, सर्वेन्द्रियेषु । लोभादय:' क्रमेणैव रजस्युद्रिच्यमाने जायन्ते । एवमप्रकाशा- दयः क्रमेणैव तमोविवृद्धौ आविर्भवन्ति ॥ ११-१३ ॥ यदा सच्चे विवृद्वे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥ १४ ॥ 1. 2. S लोभादिकाः B तमोवृद्धौ
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२७९
दिखावट