154 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता मया ततमिदं कुत्स्नं जगदव्यक्तमूर्त्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्वव स्थितः ॥ ४ ॥ मयेति । मत्स्थानि सर्वभूतानीति । सुचिरमपि गत्वा अन्यस्य प्रतिष्ठाधाम्नः अविद्यमानत्वात् । भूतरूपबोध्यात्मक- प्रसिद्धतदीयजड रूपपुरःसरीकारेण तदवभासे तद्विपरीतबोध- स्वभावतिरोधानम् इत्येतदाह - 'व चाहं तेष्यवस्थितः' इति ॥४॥ न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥ न चेति । न च मत्स्थानि- अविद्यान्धानां तत्त्वादृष्टेः । न हि मूढा अविच्छिन्न संवित्स्वभावं परमेश्वरं समस्तवस्तुपरि- च्छेदप्रतिष्ठास्थानं मन्यन्ते । अपि तु 'कृशो देवदत्तोऽहम् इदं वेद्मि भूतले इदं स्थितम्' इति मितमेवस्वभावं प्रतिष्ठास्थान- तया पश्यन्ति । वनु कथमेतद्विरुद्धम् [ उच्यते ]? इत्या [शङ्क्या]ह 'पश्य योगमैश्वरम्' इति । योगः शक्तिः, युज्यमानत्वात् । एतदेव ममै- श्वर्यम्, यदेवं निरतिशयाद्भुतवृत्ति स्वातन्त्र्यमित्यर्थः ॥ ५ ॥ यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥ 1. N तत्तद्विपरीत- 2. Somits भूतले 3. N प्रतिष्ठानस्थानतया
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२१५
दिखावट