पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमोsध्याय: एवं हि सर्वभावेषु चराभ्यनभिलक्षितः । भूतप्रकृतिमास्थाय सदैव च विनैव च ॥ ७ ॥ यथेति । एवमिति । यद्वदाकाशवाय्वोरविनाभाविन्यपि संबन्धे न जातु' नभःस्पृश्यता श्रूयते, एवं सकल संसार विसायंपि भगवत्तत्त्वं न सर्वजनविषयम् ।। ६-७ ।। सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् || ८ || सर्वेति । प्रकृति, अव्यक्तरूपाम् ॥ ८ ॥ 155 प्रकृति स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ९ ॥ प्रकृतिमिति । 'स्वी प्रकृतिमवष्टभ्य' इत्येतावना जडोऽ- पि स्वतोऽयं भाव ( भूत ) ग्रामः परप्रकृत्यन्वयात् प्रकाशतां प्राप्तः [इति प्रतिपादितम्] ॥ ९ ॥ न च मां तानि कर्माणि निबध्नन्ति धनञ्जय | उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ १० ॥ मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ।। ११ ।। न चेति । मयेति । न च मेऽस्ति कर्मबन्धः, औदासी- न्येन वर्तमानोऽहं यतः । अत एवाहं जगन्निर्माण अनाश्रितव्या- पारत्वात् हेतुः ।। १०.११ ।। 1. S जातुचित्