पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमोऽध्यायः श्रीभगवानुवाच - इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे | ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥ इदमिति । अनसूयत्वं ज्ञानसंक्रान्तौ कारणं मुख्यम् । ज्ञानविज्ञाने प्राग्वत् ॥ १ ॥ राजविद्या राजगुहां पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् || २ || राजेति । राजते सर्वविद्यामध्ये बीप्यते या। इहैव - ह्युच्यते - 'अध्यात्मविद्या विद्यानाम्' इति । राज्ञां जनकादी- नाम् अत्र अधिकारः, तेषां रहस्यम् अतिगुप्तत्वात् । क्षत्रिय- सुलभेन वी (धी) रभावेनाविकम्पनात् कर्तुमनुष्ठातुं सुसुखम् । [अव्ययम् ], न चास्य ब्रह्मोपासनात्मनः कर्मणः अन्यकर्मवदुप- भोगादिना व्ययोऽस्ति ॥ २ ॥ अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥ अश्रद्धावा इति । निवर्तन्ते, पुवः पुनर्जायन्ते म्रियन्ते च ॥ ३ ॥ 1. S,B, N प्रति गुप्तत्वात् 2. S, B, N - कम्पश्वात् 3. N अनुष्ठानम् 4. B adds न च मत्स्या यथाकाशमे (ए) वं हि सर्वभूतानि before मिवर्तन्ते | Obviously this is to go the next verse. -