92 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता विद्याविनयसंपने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥ विद्येति । तथा च तेषां योगिनी ब्राह्मणे न ईदृशी बुद्धिः 'अस्य शुश्रूषादिना अहं पुण्यवान् भविष्यामि' इत्यादि; गवि न 'पावनी इयम्' इत्यादि; हस्तिनि न अर्थादिधीः; शुनि अपवित्रपापकारितादिनिश्चयः; श्वपाके च न पापापविवादि- धिषणा । अत एव 'समं पश्यन्ति' इति, न तु 'व्यवहरन्ति' इति । तदुक्तम् 2- चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् । अतश्च तन्मयं सर्वं भावयन् भवजिज्जन:3 || इति । (VB, 100) अवापि भावयन्निति ज्ञानस्यैवेयं धारा उक्ता ॥ १८ ॥ तस्य च इत्थं संभावना इत्याह- न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद् ब्रह्मणि स्थितः ।। १९ ।। न प्रहृष्येदिति । एतस्य समदर्शिनः शत्रुमित्रादिविभा- गोऽपि व्यवहारमान एव, नान्तः, ब्रह्मनिष्ठत्वात् ॥ १९ ॥ बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यः सुखम् । स ब्रह्म योगयुक्तात्मा सुखमव्ययमश्नुते ॥ २० ॥ 1. N अनीदृशी 2. K यमुक्तम् 3. B, N भवभिज्जनः
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१५३
दिखावट