पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चमोऽध्यायः 93 बाह्यस्पर्शे विषयात्मनि सक्तिर्यस्य नास्ति स ह्येवं मन्यते इत्याह- ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ।। २१ ।। ये हीति । स ह्येवं भावयति- 'बाह्यविषयजा भोगा: 1 सर्वे दुःख कारणरूपाः; तथाविधा अपि अनित्याः ॥ २१ ॥ शक्नोतीहैव यः सोढुं प्राक् शरीरबिमोचनात् । कामक्रोधोद्भवं वेगं स योगी स सुखी मतः ॥ २२ ॥ शक्नोतीति । न चैतदुःशकम्; शरीरान्तकालं यावत् क्रोधकामजो वेगः, क्षणमावं, यदि सह्यते तदा आत्यन्तिकी सुखप्राप्तिः ॥ २२ ॥ योऽन्तः सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स पार्थ परमं योगं ब्रह्मभूतोऽधिगच्छति ॥ २३ ॥ योऽन्तरिति । अन्तः तस्यान्तरेव बाह्यानपेक्षि सुखं, तत्रैव रमते, तत्व चास्य प्रकाश: ; व्यवहारी तु मूढत्वमिव । उक्तं च - 'जड इव विचरेदवादमतिः' इति । ( PS, 71 ) ॥ २३ ॥ लभन्ते ब्रह्म निर्वाणमृषयः क्षीणकल्मपाः । छिनद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २४ ॥ 1. B,N बाह्यविषयभोगाः । 2. B omits बाह्यानपेक्षि to व्यवहारे तु ।