सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः श्लो. ५७ (व्या) रूढिश्वेत्यादि । अवेदमभिप्रेतमिव- 'रूढिव नित्यमात्मरूढित्वम् । तस्मिश्च सति योगिनो यः स्थितप्रज्ञशब्दः सोऽन्वर्थः, स चेत्थं युक्तः' इति ॥ ---... श्लो. ६० (व्या) न चास्य पाचकवद्योगरूढत्वमिति । अन च 'व चास्य पङ्कजशब्दवद्योगरूढत्वम्; अपि तु पाचकपद- वत् यौगिकत्वम्' इति विवक्षितमिति प्रतिभाति । अत एव यदा यदा इत्यादि वक्ष्यमाणं संगच्छते । अन च --- 41 'यदि क्रियासंबन्धनिमित्तः कारकशब्दप्रयोगः, पचत्येव पाचकशब्दः प्रवर्तते, नापाक्षीत् इति पाचकः, न पक्ष्यतीति पाचकः । ' इति न्यायवार्तिकवाक्यानि (II, i, 16) अनुसंधेयानि । इन्द्रियार्थेभ्यः प्रभृति इति । तथा च प्रभृतिशब्दाभावेऽपि तद- र्थस्य सत्त्वात् तत्प्रयुक्ता मूले इन्द्रियार्थेभ्य इति पञ्चमी इति भावः । अत एव 'अपादाने पञ्चमी' (PA,II,iii, 28) इति सूते पहा- भाष्ये 'यतश्चाध्वकालनिमानं ततः पञ्चमी' इति वात्तिकप्रत्या ख्यानावसरे 'इदमत प्रयोक्तव्यं सत् न प्रयुज्यते-कात्तिक्याः प्रभृति आग्रहायणी मासे' इत्युक्तम् । सर्वमिति । तथा च एतद्वितीयव्याख्यानुरोधेन मूले सर्वत इति सार्वविभक्तिकस्तसिरिति आचार्याभिप्रेतमिव प्रतिभाति ॥ श्लो.६१ (मू) दृष्ट्वेति। परं दृष्ट्वा वर्तमानस्य अस्य रसोऽपि निवर्तते इति योजना ॥