पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता श्लो. ६२ (व्या) यत्तस्येति - यती प्रयत्ने इति भौवादि- कस्य धातोरकर्मकत्वात् गत्यर्थाकर्म केत्यादिना (PA,III,iv, 72) कर्तरि क्तः, प्रयतत इत्यर्थः । तदेवाह सयत्नस्येति ॥ श्लो. ७१ (व्या) द्वे रूपे इत्यादि । मोहकत्वं नाम एक रूपं, सुखतन्त्रताभासनं नाम द्वितीयं च रूपमित्यर्थः ॥ संग्रहश्लोके आरोहत्येवेत्यादि । अथवा 'आरुह्यादेव विषयान्, श्रयत् तौस्तु' इति युज्यतेतराम् । श्रयदिति चेतो- विशेषणम् | विषयाणां त्यागेत तानारुह्यात् चेतः, श्रयणेव तु तानेव परित्यजेत् इति अतीव चित्रा गतिश्चेतसः, अहो! इति तात्पर्यम् ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रह टिप्पण्यां द्वितीयोऽध्यायः ॥