पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः अर्जुन उवाच- ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तरिक कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥ व्यामिश्रेणेव वाक्येन बुद्धि मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥ ज्यायसीति । व्यामिश्रेणेति । कर्म उक्तं ज्ञानं च | तत्व न , द्वयोः प्राधान्यं युक्तम् अपि तु ज्ञानस्य । तद्द्बलेन क्षपणीयत्वं यदि कर्मणां 'बुद्धियुक्तो जहातीमे' (II, 52 ) इत्यादिनयेन मूलत एव, तर्हि कर्मणा कि प्रयोजनमिति प्रश्नाभिप्रायः ॥ १-२॥ श्रीभगवानुवाच - लोकेऽस्मिन् द्विविधा निष्ठा पुरैकोक्ता (१) मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥ श्रीभगवांस्तूत्तरं ददाति लोकेऽस्मिन् इति । लोके एषा द्वयी गतिः प्रसिद्धा - सांख्यानां ज्ञानं प्रधानम्, योगितां च कर्मेति । मया तु सा एकैव निष्ठा उक्ता ज्ञानक्रिया मयत्वात् संवित्तत्त्वस्येति भावः ॥ ३ ॥ 1. K तत् 2. S, K कर्मणा-