द्वितीयोऽध्यायः स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि पुद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥ ३२ ॥ स्वधर्ममिति । स्वधर्मस्य च अनपहार्यत्वात् युद्धविषयः कम्पो न युक्तः ॥ ३२ ॥ यहच्छ्या चोपपत्रं स्वर्गद्वारमपावृतम् । सुख्योऽन्ये (१) क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३३ ॥ । यदृच्छयेति । अन्येऽपि ये2 काममयाः क्षत्रियाः तैरपीदृशं युद्धं स्वर्गहेतुत्वात् न त्याज्यम् । कि पुनर्यस्य ईदृशं ज्ञानमुप- दिष्टम् इति तात्पर्यम् । न पुनः स्वर्गपर्यवसायी श्लोक:3 ॥ ३३॥ यद्भयाच्च भवान् युद्धात् निवर्तते तदेव शतशाखमुप- विपतिष्यति भवत इत्याह- अथ चेवमिमं धर्म्य संग्रामं न करिष्यसि । ततः स्वधर्म कीर्तिं च हित्वा पापमवाप्स्यसि ॥ ३४ ॥ अकीर्ति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभाषितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३५ ।। भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । एषां च स्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३६॥ 25 S, B, N अपरिहार्यस्वात् N omits ये 1. 2. 3. B,N omit a ga:- 4. K निवर्तेत श्लोक:
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/८६
दिखावट