सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता वासत इति । अथ च लोकवृत्तेनेदमाह-असतः नित्य- विनाशिनः शरीरस्य न भावः, अनवरतमवस्थाभिः परिणामि त्वात् । नित्यसतश्च परमात्मनो नास्ति कदाचिद्विनाशः; अपरिणामधर्मत्वात् । तथा च वेदः, 'अविनाशी वा अरेऽय- मात्मानुच्छित्तिधर्मा' (बृ. उप. ४.५.१४) इति । अनयोः, सदसतोः अन्तः प्रतिष्ठापदं यत्नानयोविश्रान्तिः ।। १७ ।। यस्तत्त्वशिभिर्दृष्टः स खलु वित्योऽनित्यो वा? इत्या- 20 शङ्क्याह - अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ।। १८ ।। अविनाशि इति । तुश्चार्थे । आत्मा त्वविनाशी ॥ १८ ॥ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । विनाशिनोऽप्रमेयस्य तस्मायुध्यस्व भारत ॥ १९ ॥ अन्तवन्त इति । [देहा:] निरुपाख्यताकाले स्थूल विनाश- योगिनः तदन्यथानुपपत्तेरेव च विनाशिनः, प्रतिक्षणमवस्थान्तर- भागितः । यदुक्तम् 'अन्ते पुराणतां दृष्ट्वा प्रतिक्षणं नवत्वहानिरनुमीयते' इति । मुनिनापि - 'कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे । वर्तते सर्वभावेषु सौक्ष्म्यात्तु न विभाव्यते' || (MB, Sānti. Mokşa., Ch. 308, verse 121) इति । 1. S निरुपाख्यकाले 2. S पुराणं वृष्ट्वा