द्वितीयोऽध्यायः यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १६ ॥ ननु यत एवागमापायिनः सर्वे दशाविशेषास्तत एव शोच्यन्ते? मैवम् । तथाहि कोऽयमागमो नाम? उत्पत्तिरिति चेत्' । सापि का? असत आत्मलाभः सा इति त्वसत् । अस त्स्वभावता हि निःस्वभावता निरात्मता2; निरात्मा निःस्व- भावः कथं सस्वभावीकर्तुं शक्यः ? अनीलं हि न नीलीकर्तुं शक्यम्, स्वभावान्तरापत्तेर्दुष्टत्वात् । तथा च शास्त्रम्- 'न हि स्वभावो भावानां व्यावर्तेतौष्ण्यवद्रवेः' इति अथ सत एवात्मलाभ उत्पत्तिः, उतदा लब्धात्मनोऽस्य जात्वप्यनभावान्नित्यतैव इति, आगमे का शोच्यता ? एवमपा- योऽपि सतः असतो वा ? असत्तावदसदेव | सत्स्वभावस्थापि कथमसत्तास्वभावः ? द्वितीये क्षणेऽसौ असत्स्वभाव इति चेत् १ आद्येऽपि तथा स्यादिति न कश्चिद्भावः स्यात् । स्वभावस्या- त्यागात् । अथ मुद्गरपाता दिना' अस्य नाशः क्रियते । स॑ यदि व्यतिरिक्तः, भावस्य किं वृत्तम् ? न दृश्यते इति चेत् । मा नाम दशि भावः, न त्वन्यथाभूतः पटावृत इव । अव्यतिरिक्तस्तु वासौ इत्युक्तम् । तदेतत्संक्षिप्याह- नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १७ ॥ 1. S नामेति चेत् 2. B,N omit farregat 3. S तदलब्ध 4. S, B, K • जात्वध्यभावा- मुद्गरादिना -
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/८०
दिखावट