सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५०८) भट्टिकाव्ये जयमङ्गलासमेते- [ एकविंशः - - अपीत्यादि — तत्ररिपुः स भवान् रिपुः स रावणः । भवच्छन्दोऽर्था- गम्यते, तेन 'इतराभ्योऽपि दृश्यन्ते |५|३|१४|' इति त्रल | अपि बाढ नार्थयिष्यत दुर्मतिरदुष्टचेता अभविष्यत् तदा सीतां बाढं नार्थयिष्यत । भार्या मम भवेति न प्रार्थितवान् । 'उताप्योः समर्थयोर्लिङ | ३ | ३ | १५२१ इति । अत्रापिशब्दो बाढार्थ: लिइनिमित्तं तस्मिन् लिङ्निमित्ते क्रियाति- पत्तौ सत्यां भूते नित्यं लङ् | तत्र 'वोवाप्योः |३ ।३ । १४१ ।' इति अनुव- तते । अत्रार्थनक्रियायाः तद्विरुद्धदुर्मतित्वोपनिपातातिपत्तिर्गम्यते । अर्थन- मर्थः याचनम् । तत्करोतीति णिचू | नाहमव कल्पयामि यद्यदुर्मतिरभविष्यत् • क्रूरं परुषं जातु कदाचित् नावद्विष्यत् नोक्तवान् । श्रियं विभूर्ति स्वकानात्मीयान् ईदृशी मे विभूतिरिति नास्ताव्यत् वांश्च । 'जातुदोलिङ् | ३ | ३ | १४७ ।' इत्यत्र जातुशब्दोऽनवक्ल तिच लिङो निमित्तं तत्र । 'अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि | ३ | ३ | १४५|' इति वर्तते । अत्र क्रूरांभिधानक्रियाया विभूत्याः स्तवनक्रियायाश्च तद्विरुद्धदु- •मतित्वोपनिपातादतिपत्ति: । केचित् 'लडपिजात्वोः' इत्येतदुदाहरन्ति तद्- • युक्तं तस्यालिनिमित्तत्वात् ॥ ३ ॥ न स्तुत- सङ्कल्पं नाकरिष्यच्च तत्रेयं शुद्धमानसा सत्यामर्षमवाप्स्यस्त्वं राम सीतानिबन्धनम् ॥ ४॥ लङ्कल्पमित्यादि ——तत्रेयं शुभमानसेति नाहमवकल्पयामि यदीयं शुद्ध- मानसा नाभविष्यत् । तत्र तस्मिन रावणे इत्थं प्रीयमाणेऽपि सङ्कल्पमभि- प्रायमकरिष्यत् कृतवती स्यात् न च कृतवती शुद्धमानसत्वात् । सत्यामर्षमवा- प्स्यस्त्वमिति हे राम ! यद्यशुद्धमानसा अभविष्यत् तदा सीतानिबन्धनं सीताहेतुकम् अमर्ष क्रोधं सत्यसंभूतमवाप्स्यस्त्वं प्राप्तः स्याः नतु सत्यं, यतः शुद्धमानसा । 'अनवक्लप्त्यमर्षयोरकिंवृत्तेऽपि । ३ । ३ । १४५ १ इत्यत्र अनवक्लाव्यमर्षयोलिङ् निमित्तं तस्मिन् लिङ् निमित्ते क्रियातिपत्तौ भूते वा लङ् । तत्र ‘ वोताप्योः । ३ । ३ । १४१ ।' इत्य- धिक्रियते । अत्र सङ्कल्पक्रियायाः सत्यामर्षक्रियायाश्च तद्विरुद्धशुद्धमा- नसत्वोपनिपातादतिपत्तिः ॥ ४ ॥ अन्यथास्मिन्वस्तूनि नाहमेबैक: प्रमाणं भवानपि प्रमाणमेवेति दर्शयन्नाह - P त्वयाद्रक्ष्यत कि नास्याः शीलं संवसता चिरम् । अदर्शिष्यन्त वा चेष्टाः कालेन बहुनान किम् ॥ ५॥