सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४६६ ) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तदशः - मेघा इत्यादि- सविधतो मेघाश्चेलक्नोपं शोणितं रक्तम् अवर्षन् वर्षितव- ज्तः । यावता रक्तेन चेलं वास: क्नोपयते सिच्यते तावत्प्रमाणं वृष्टवन्तः । 'क्नूयी शब्दे'. इत्यस्य ण्यन्तस्य । 'अर्तिहीन्लीरीक्नूयीक्ष्माय्यातां पुणौ |७|३|३६ |' इति पुकि यलोपः । “चेले क्नोपेः | ३ | ४ | ३३' इति णमुलू | भीमाः नेभस्वन्तः वायवः अवान् वान्ति स्म । 'लड: शाकटायनस्यैव । ३। ४। १११।' इति नियमादन्यमते झेर्जुस न भवति । शिवः शृगालयः अशिवाः अनिष्टशंसिन्यः प्रारुवन् शब्दितवत्यः ॥ ७४ ॥ आटाट्यतावमत्यासौ दुर्निमित्तानि संयुगे । अधुनोद्धनुरखौघैः प्रौणोंनूयत विद्विषः ॥ ७५ ॥ आटाट्यतेत्यादि- असौ रावण: दुर्निमित्तान्यवमत्य युद्धार्थमाटाट्यत अत्य- र्थमाटत् । 'सूचिसूत्रिमूत्र्यटथर्त्यशूणांतिभ्यो यङ् वाच्यः' इति यङ् । सयुगे युद्धे धनुरधुनोत् कम्पितवान् । अत्रौवैर्विद्विषः शत्रून् प्रौर्णोनूयत भृशं छादितवान्। ‘ऊर्णुञ् आच्छादने' । ऊर्णोतेर्णुवद्भावात् 'सूचिसूत्रिमूत्र्यटथर्यशूर्णोतिभ्यो यङ् वाच्यः' इति वार्तिकेन यङ् | 'अजादेर्द्वितीयस्य | ६|१|२|' इति द्विवेचने ‘न न्द्राः संयोगादयः।६।१।३ |' इति रेफो न द्विरुच्यते । नुशब्दस्य द्विवचनम् । ‘गुणो यङ्लुकोः।७।४।८२|' इति गुण: । 'अकृत्सार्वधातुकयोः |७|४|२५|| इति दीर्घः ॥ ७५ ॥ अथ युग्मकम् । व्यनाशयंस्ततः शत्रून् सुग्रीवास्ता महीभृतः । ततो व्यरसदग्लायदध्यशेत महीतलम् ॥ ७६ ॥ व्यनाशयन्नित्यादि—ततोऽनन्तरं सुप्रीवास्ता: सुग्रीवेण अस्ताः क्षिप्ता महीं पृथ्वीं विभ्रति धारयन्तीति महभृितः पर्वताः शत्रुसैन्यं व्यनाशयन् मारि- तवन्तः।ततो मांसादां मांसभक्षकाणां रक्षसां बलं सुग्रीवेण बाधितं पीडितमित्यु- तरलोकेन संवन्धः । व्यरसत् आनन्दितवत् । अग्लायत् ग्लानिं गतम् । युद्धोत्साहं त्यक्तवन्त इति मात्रः । महीतलमध्यशेत महीतले पतितम् । 'शीङ : सार्वधातुके गुणः |७|४|२१|| इति गुणः ।। ७६ || अश्च्योतद्रुधिरं तोयमलपच्चातिविह्वलम् । अशीयत नृमांसादां बलं सुग्रीवबाधितम् ॥ ७७ ॥ १ 'नभस्वद्वातपवनपवमानप्रभञ्जनाः' इत्यमरः । २ 'शिवा गौरीफेरवयोः' इत्यमरः । ३ सम्प्रहाराभिसम्प्रातकलिसंस्फोटसंयुगाः ।' इत्यमरः ।